१२ यावङ्कौ रूपातिरिक्ताङ्केन भक्तौ निःशेषौ भवतस्तावङ्कौ मिलितसंज्ञौ ज्ञेयौ।
१३ यावङ्कावेकातिरिक्तः कोऽपेि हरो निःशेषं न करोति तौ भिन्नाङ्कौ ज्ञेयौ।
१४ योऽङ्कः स्वेनैव गुणितः फलं तस्यैव वर्गों भवति।
१५ योऽङ्कः स्ववर्गेण गुणितः घनसंज्ञो भवति।
१६ गुण्याङ्कगुणकाङ्कयोर्घातो गुणनफलं क्षेत्रफलं भवति।
१७ गुण्यगुणकौ भुजसंज्ञौ भवतः।
१८ क्षेत्रफलं केनचिदङ्केन गुणितं घनफलं भवति।
१९ यत्र प्रथमाङ्को यद्गुणितो द्वितीयाङ्कतुल्यो भवति तद्गुणगुणितस्तृतीयाङ्कश्चतुर्थाङ्कतुल्यो भवति तदा तेऽङ्काः सजातीया भवन्ति ।
२० क्षेत्रफलघनफले ते सजातीये भवतो ययोर्भुजावेकरूपौ सजातीयौ भवतः।
२१ योऽङ्कः खलब्धियोगतुल्यो भवति स पूर्णसंज्ञो ज्ञेयः। यथा षट्॥
॥ इति परिभाषा ॥
अथ प्रथम क्षेत्रम् ॥ १॥
ययो राश्योः परस्परं भाजितयोरन्ते रूपं शेषं स्यात् तौ राशी भिन्नसंज्ञौ ज्ञेयौ।
यथा अबं बृहद्राशिः कल्पितः। जदं लघुराशिः कल्पितः। जदं अबमध्ये मुहुः शोधितं शेषं तअं तत् जदादूनमवशिष्टम् । पुनस्तअंजदान्मुहुः शोधितं शेषं जवं तत् तआदूनं जातम्। एत तअमध्ये मुहुः शोधितं शेषं कअं रूपम्। तस्मात् अबजदराशी भिन्नौ स्तः।
अस्योपपत्तिः।
यद्येतौ भिन्नौ न भवतः तदाऽन्यौ राशी कल्पनीयौ । हझमुभयो-