पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ अथ ससमोsध्याय: प्रारभ्यते ॥ तंत्रैकोनचत्वारिंशत्क्षेत्राणि सन्ति । अत्राणितप्रकारा निरूपिताः ॥ १ अको नाम रूपाणां समुदायः । तन्मते रूपेऽङ्कत्वाभावः । अन्ये तु गणनायोग्यमङ्कं वदन्ति तन्मते रूपेण्यङ्कत्वमस्ति गणनायोग्यत्वात्। २ यत्र लवको बृहदङ्कादसकृत् शोषित: सेन् बृहदको निःशेषः स्यात् तदा लवको बृहदकस्यांशोऽस्ति । वृहदको गुणगुणितल- ध्वतुल्योऽस्ति । ३ यस्य भागद्वयं समानं भवति स समाङ्को ज्ञेयः । ४ यस्य भागद्वयं समानं न भवति स विषमाङ्को ज्ञेयः । ५ समाको यद्येकेन हीनोऽधिको वा भवति सोऽपि विषमाको ज्ञेयः । ६ समाको द्विविधः । एकः समसम: ८ | एकः समविषमः ६ । ७ समसमो यथा । समाङ्कः समेन ह्रियमाणः समा लब्धि: प्राप्यते स समसमः । ८ यः समाङ्कः समेन ट्रियमाण: विषमा लब्धिः प्राप्यते स समविष- मो ज्ञेयः । ९ अथ विषमविषमाङ्कलक्षणम् | विषमाको विषमेण ह्रियमाणः वि. षमा लब्धि: प्राप्यते स विषमविषयाङ्कः । यथा नवाङ्कः (९) त्रि- भक्तः त्र्यं प्राप्यते । १० योsको रूपातिरिक्ताङ्केन निःशेषो न भवति स प्रथमोऽको ज्ञेयः | यथैकादशाङ्कः । ११ यो रूपातिरिक्ताङ्केन विभागार्हः स योगाङ्को ज्ञेयः । १ तत्र ऊन० K. २ Omitted in K.