छेदितक्षेत्रयोगतुल्यो भविष्यति । तानि छेदितक्षेत्राणि कल्पितशङ्कोः त्रिगुणादधिकानि भवन्ति । बः उत्पन्नसफलकशङ्कुः कल्पितशङ्क्वन्तस्तिष्ठति । अयं कल्पितशङ्कोरधिको भविष्यति । इदमशुद्धम् ॥[१]
पुनः स शङ्कुः समतलमस्तकपरिधितृतीयांशात् खघनफल क्षेत्रतुल्योऽधिकः कल्पितः । तस्मात् तत्[२] क्षेत्रं त्रिगुणितशङ्कोर्न्यूनं भविष्यति ।
पुनः पूर्ववत् कल्पितशङ्क्वन्तरनेनोच्छ्रायेण सफलकशङ्कुस्तथा कार्यो यथा शेषखण्डानि खक्षेत्रान्न्यूनानि भविष्यन्ति । अयं सफलकस्त्रिगुणितः सन् समतलमस्तकपरिधिक्षेत्रादधिको भविष्यति । सास्रशङ्कोर्भूमौ तावदुच्छ्रितं छेदितक्षेत्रं कार्यम् । एतानि च्छेदितक्षेत्राणि त्रिगुणितसाखशङ्कुतुल्यानि भवन्ति । अयं त्रिगुणसफलकशङ्कुश्च समतलमस्तक परिषिक्षेत्रादधिकोऽस्ति । तस्मात् छेदितक्षेत्राण्यप्यधिकानि भविष्यन्ति । इदमशुद्धम् । अस्मदिष्टं समीचीनम् ॥
प्रकारान्तरम् ॥
यत् घनक्षेत्रं समतलमस्तकपरिधिक्षेत्रत्र्यंशान्यूनं भवति तत् क्षेत्रं शङ्कोरपि न्यूनं भविष्यत्यधिकेऽधिकं च तत् । तत्र प्रथमतः घनक्षेत्रं न्यूनं क्षेत्रं कल्पितम् । इदं त्रिगुणितं समतलमस्तकपरिधिक्षेत्रात् खक्षेत्रतुल्यं न्यूनं भविष्यति ।