झझहरेखाः संयोज्याः । रेखायोगेन त्रयः समानाः शङ्कवस्त्रिभुजभूमिकाः संपद्यन्ते ।
अत्रोपपत्तिः ।
यस्य शङ्कोर्भूमिर्जवदत्रिभुजं मुखं झचिह्नं यस च शङ्कोर्वदहत्रिभुजं भूमिर्मुखं झचिह्नमस्ति एतौ शङ्कू समौ स्तः । छेदितक्षेत्रस्य अबहझशङ्कुरवशिष्टः । अझं द्वितीयशङ्कुसमानोस्ति । कुतः । यतो वचिह्नमुभयोर्मुखं कल्पितम् । अनयोर्भूमिश्च अझहझदत्रिभुजौ कल्पितौ । तस्मात् त्रय उत्पन्नशङ्कवः समाना जाताः ।
अनेन क्षेत्रेणेदमपि ज्ञातं त्रिभुजभूमिकशङ्कोश्छेदितक्षेत्रं संपूर्ण चेत् क्रियते तदा शङ्कुश्छेदितक्षेत्रस्य त्र्यंशो भविष्यति ॥ ६ ॥
अथ सप्तमं क्षेत्रं ॥ ७॥
त्रिभुजभूमिकौ शङ्कू यदि समानौ भवतस्तदा तयोर्भूम्योर्निष्पत्तिस्तल्लम्बयोर्विलोमनिष्पत्तितुल्या भविष्यति । यदि[१] तयोः शङ्कोर्भूमिनिष्पत्तिर्लम्बयोर्विलोमनिष्पत्तितुल्या भवति तदा तौ समानौ भवतः ।
यथा अबजदशङ्कुहझवतशङ्कू कल्पितौ । अनयोः शङ्कोर्द्वे घनक्षेत्रे समानान्तरधरातले बलझगे संपूर्णे कार्ये । एते द्वे घनक्षेत्रे
- ↑ यदीदृशी निष्पत्तिस्तदा तौ समानौ स्तः । K., A.