पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्मात् सर्वेषां छेदितक्षेत्राणां योगः खक्षेत्रादधिको भविष्यति । पुनर् अबजदशङ्कोः शङ्कुच्छेदितक्षेत्राणि तावन्ति कार्याणि यावन्ति मनसगशङ्कोः शङ्कुच्छेदितक्षेत्राणि कृतानि । तस्मात् अबज- भूमेनिष्पत्तिर्मनसभूम्या तथा स्यात् यथा अबजदशङ्कोः सर्व- च्छेदितक्षेत्रयोगस्त्र निष्पत्तिर्मन सगशङ्कोश्छेदितक्षेत्र योगेनास्ति । पुनर् अबजमनसभूम्योर्निष्पत्तिः अबजदशङ्कखवनक्षेत्रयोर्निष्पत्तितुल्या कल्पितासीत् । तस्मात् अबजदशङ्को: सर्वच्छेदितक्षेत्रयोगस्य निष्पत्ति- र्मनसशकोः सर्वच्छेदितक्षेत्रयोगेन निष्पत्तिस्तथास्ति यथा अब- जदशको: खघनक्षेत्रेणास्ति । अबजदशङ्कोः सर्वच्छेद ( निष्पत्तिः अबजदशङ्कुना तथास्ति यथा मनसगशङ्कोः सर्वच्छेदि- तक्षेत्रयोगस्य निष्पत्तिः खधनक्षेत्रेणास्ति । तदा मनसगशङ्कोः सर्वच्छे- दितक्षेत्रयोगः खघनक्षेत्रादधिकोऽस्ति । तस्मात् अबजदशङ्को: सर्वच्छे- दितक्षेत्रयोगः अबजदशङ्कतोऽधिको भविष्यति । इदमशुद्धम् ॥ पुनः खक्षेत्रं मनसगशङ्कोरधिकं कल्पितम् | तस्मात् अनसभूमे- निष्पत्तिः अबजभूस्या तथा भविष्यति यथा मनसगरा को निष्पत्तिः अवजदशङ्कोर्न्यूनक्षेत्रेणास्ति । उपरितनप्रकारेणैवेदमशुद्धं करिष्यामः । तस्मादस्मदिष्टं समी- चीनम् ॥ अथ षष्ठं क्षेत्रम् ॥ ६ ॥ यत् छेदितक्षेत्रमस्ति तस्य त्रयः समानाः शङ्कवस्त्रिभुज- भूमिकाः कर्त्तुं शक्यन्ते । यथा अबजदहझच्छेदितक्षेत्रं जदभूमौ कल्पितम् | पुनर्बदब- १ सर्वच्छेदित' K, A. २ वेदमप्यशुद्धम् | K., A,