कुतः । अनयोर्भुजा वृतच्छङ्कोर्भुजार्द्धमिताः सन्ति । एतानि त्रिभुजानि सजातीयानि भविष्यन्ति । कुतः । केचित्कोणा मिलिताः सन्ति । केचित्कोणाः समानाः सन्ति । कुतः । एतेषां[१] कोणानां भुजा बृहद्भुजेभ्यः समानान्तराः सन्ति । तस्मादेतौ शङ्कू मिथः
सजातीयौ समानौ च भविष्यतः । बृहच्छङ्कोः सजातीयौ च पतिष्यतः । पुनर्बृहच्छङ्कोरर्द्धे छेदितक्षेत्रे समानलम्बेऽवशिष्येते । तस्मादेतयोर्द्वयोश्छेदितक्षेत्रयोर्झतलवं धरातलमेकमेव भविष्यति । पुनरेकच्छेदितक्षेत्रस्य भूमिर्हवलबचतुर्भुजं समानान्तरभुजं भविष्यति । द्वितीयस्य भूमिर्वलजत्रिभुजं भविष्यति । इदं त्रिभुज हवलबक्षेत्रस्यार्द्धमस्ति । तस्मादुभे छेदितक्षेत्रे अपि समाने भविष्यतः । यस्य च्छेदितक्षेत्रस्य भूमिर्वलजत्रिभुजमस्ति तत् अहवझशङ्कोरधिकमस्ति । कुतः । एतयोः समभूमिसमलम्बत्वात् । अस्मादेतच्छेदित[२] क्षेत्रद्वयं बृहच्छङ्कोरर्द्धादधिकं भविष्यति । इदमेवेष्टम् ||
अथ चतुर्थं क्षेत्रम् ॥ ४॥
त्रिभुजभूमिकयोस्त्रिफलकयोः समानलम्बयोः शङ्कोः प्रत्येकस्य पूर्ववच्छङ्कुद्वयं छेदितक्षेत्रद्वयं च क्रियते तदानयोर्भूभ्योर्निष्पत्तिरनयोश्छेदितक्षेत्रनिष्पत्तितुल्या भविष्यति ।
यथा अबजदमेको मनसगं द्वितीयः शङ्कु कल्पितः । अनयोः शङ्कोर्मध्ये उभौ शङ्क द्वे छेदितक्षेत्रे च पूर्ववत्कार्ये । तदा अबजत्रिभुजमनस त्रिभुजयोर्निष्पत्तिः अबजदशङ्कोश्छेदितक्षेत्रद्वयस्य मनसगशङ्कोश्छेदितक्षेत्रद्वयेन या निष्पत्तिस्तस्याः समाना भविष्यति ।
अस्योपपत्तिः ।
बजजलयोनिष्पत्तिर्नससशयोर्निष्पत्तितुल्यास्ति । तस्मात् जबज-