निष्पत्तितुल्यासीत् । तस्मात् सफक्षेत्रकमक्षेत्रयोर्निष्पत्तिः अजवृत्तफलस्य सक्षेत्रफलस्य च निष्पत्तिसमाना भविष्यति । पुनः सफक्षेत्र अजवृत्तफलस्य निष्पत्तिः कमक्षेत्रसक्षेत्रनिष्पत्तितुल्यास्ति । कमक्षेत्रं सक्षेत्रादधिकमस्ति । तस्मात् सफक्षेत्रफलं अजवृत्तफलादधिकं भविष्यति । इदमशुद्धम् ॥
पुनर्बदवर्गझतवर्गयोर्निष्पत्तिःअजवृत्तक्षेत्रहववृत्तादधिकान्यक्षेत्रनिष्पत्तिसमाना कल्पिता । तस्मात् झतबदवर्गयोर्निष्पत्तिस्तथास्ति यथा हवादधिकक्षेत्रस्य ष्पत्तिः अजवृत्तफलेनास्ति वा हववृत्तफलस्य[१] अजवृत्तफलान्यूनक्षेत्रेण निष्पत्तिस्तत्तुल्यास्ति ।
पूर्वप्रकारेणैवेदमप्यशुद्धं[२] कुर्मः । तसादस्मदिष्टं समीचीनम् ||
अथ तृतीयं क्षेत्रम् ॥ ३ ॥
त्र्यस्रत्रिफलशङ्कोः खण्डचतुष्टयं कार्यं तत्र[३] पुनः खण्डद्वयं शङ्करूपं समानजातीयं कर्त्तव्यमस्ति । तस्यैव शङ्कोः शेषे द्वे खण्डे छेदितक्षेत्ररूपे शङ्क्वर्धादधिके समाने भवतस्तथा कर्त्तव्यम् ।
यथा अबजदशङ्कोः अबजत्रिभुजं भूमिः दं मुखं कल्पितम् । पुनस्तस्य षड् भुजा हझतवकलचिन्हेष्वर्द्धिताः कार्याः । पुनर्हझझवहवझततकझकतलवलरेखाः संयोज्याः । एवं कृतेऽस्मदिष्टं सिद्धं भविष्यति ।
अस्योपपत्तिः ।
अहवझशङ्कोर्झतकदशङ्कोश्च त्रयो भुजा मिथः समानाः सन्ति ।