पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समकोणौ स्तः । एतत्संबन्धिभुजौ समानौ । तदा अरभुजजरभुजौ समानौ भविष्यतः । पुनर्लरअकोणनरजकोणौ समानौ भविष्यतः । पुनर् अरनकोण उभयत्र योज्यते । तदा लरअकोणअरनकोण- योर्योगो द्वाभ्यां समकोणाभ्यां तुल्यो नरजकोणनरअकोणयोर्योगेन तुल्यो भविष्यति । तस्मात् जरअसरलैकरेखा स्यात् । पुनर्वशशबरेखे संयोज्ये | इदं निश्चितम् । अनयोयोगोऽपि सरलैकरेखा भविष्यति । जबअव- रेखा हतरेखायाः समाने समानान्तरे स्तः । तदा अजबबरेखे मिथः । समाने समानान्तरे च भविष्यतः । अबकर्णोऽनयोर्धरातलेऽस्ति । तस्मा- . दियं रेखा र छेत्स्यति । अरतत्रिभुजे बशतत्रिभुजे अरभुजबश- भुजौ समानौ स्तः । अनयोस्त्रिभुजयोः कोणावपि मिथः समानौ स्तः । तस्मात् अतं तबसमानं भविष्यति । रतं तशसमानं भविष्यति । इदमेवास्माकमिष्टम् || अथैकचत्वारिंशत्तमं क्षेत्रम् ॥ ४१ ॥ ययोश्छेदितक्षेत्रयोः समानलम्बयोरेकस्य भूमिस्त्रिभु जास्ति | द्वितीयस्य भूमी चतुर्भुजा समानान्तरभुजा पूर्वभूमे- द्विगुणास्ति | तंदा ते छेदितक्षेत्रे समाने भविष्यतः । यथा अबजदहझक्षेत्रं वतकलमनं द्वितीयं छेदितक्षेत्रं कल्पितम् । प्रथमस्य भूमिर्षदचतुर्भुजा द्वितीयस्य भूमिर्नकलत्रिभुजा कल्पिता | पुनर्नलचतुर्भुजं समानान्तरभुजं संपूर्ण कार्यम् । इदं बदचतुर्भुज १ द्वयो V. २ तदैते V,