त्तितुल्या भविष्यति । हमवनघनक्षेत्रयोर्निष्पत्तिर्हझखरेखयोनिष्पत्तितु- ल्या भविष्यति । अबगरेखा निष्पत्तिर्हझखरेखानिष्पत्तितुल्यास्ति । तस्मादेतानि घनक्षेत्राण्येकनिष्पत्तौ भविष्यन्ति ।
पुनरेतानि घनक्षेत्राण्येकरूपनिष्पत्तौ कल्पितानि । अबजदनिष्पत्तिर्हझरशतुल्या कार्या । रशोपरि रतं घनक्षेत्रं वनघनक्षेत्रवत् कार्यम् । इदमपि हमघनक्षेत्रवत् भविष्यति । अकजलयोर्निष्पत्तिर्हमरतयोर्निष्पत्तितुल्यास्ति । हमवनयोर्निष्पत्तितुल्यासीत् । तस्मात् वनरते घनक्षेत्रे समाने भविष्यतः । सजातीये आस्ताम् । तस्मात् धतरेखा रशरेखा समाना जाता । तदैता रेखा एकनिष्पत्तौ भविष्यन्ति । इदमेवास्माकमिष्टम्॥
अथ चत्वारिंशत्तमं क्षेत्रम् ॥ ४० ॥
घनहस्तक्षेत्रस्य मिथः सन्मुखधरातलयोर्भुजानामर्द्धं कार्यमर्द्धचिह्नेषु धरातलद्वयं मिथः संपातकर्तृ[१] घनहस्तच्छेदकं कार्यं तदा धरातलयोः संपातरेखाघनहस्तकर्णयोः संपातो[२] भविष्यत्यर्द्धे ।
यथा अबं घनहस्तः कल्पितः । दहझते द्वे सन्मुखधरातले कल्पिते । द्वयोर्धरालयोर्भुजानां कचिन्हलचिह्नमचिह्ननचिह्नेषु तथा सचिन्गहगचिह्नकफचिह्नखचिन्हेष्वर्द्धं कृतम् । अर्द्धचिन्हेषु कफधरातललखधरातले संप्राप्ते कल्पिते । द्वयोर्धरातलयोः संपातरेखा रशं कल्पिता ।घनहस्तकर्णम्क अबं कल्पितम् । तदा अबरशरेखे तचिन्होपर्यर्द्धे संपातं करिष्यतः ।
अस्योपपत्तिः ।
जररअरेखे संयोज्ये | अरलत्रिभुजे जरनत्रिभुजे लकोणनकोणौ
I