पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथाष्टत्रिंशत्तमं क्षेत्रम् ।। ३८ ।। यदि मिथो द्वे घनक्षेत्रे समानकोणे भवत एकघनक्षेत्रस्य त्रयो भुजा एकरूपनिष्पत्तौ यदि भवन्ति द्वितीयघनक्षेत्रस्य त्रयो भुजाः प्रथमभुजत्रयमध्ये मध्यंनिष्पत्तितुल्याचेद्भवन्ति तदा ते द्वे घनक्षेत्रे मिथः समाने भविष्यतः । यथा अबजास्तिस्रो रेखा एकरूपनिष्पत्तौ कल्पिताः । पुनर्दहरेखा • अरेखातुल्या कल्पिता | पुनर्दचिहे एको घनकोणः कल्प्यः । पुन- . देवभुजो बतुल्यः कार्यः | दतभुजश्च जतुल्यः कार्यः । पुनर्दकघन- क्षेत्रं समानान्तरभुजं पूर्ण कार्यम् | पुनर्लमरेखा वतुल्या कल्पिता १. अ बं ज लचिह्नोपरि एकधनकोणो दकोणतुल्यस्तथा कार्यो यथा मलनकोणो हदतकोणतुल्यो भवति । मलझकोणश्च हदवकोणतुल्यो भवति । झलनकोणो बदतकोणतुल्यो भवति । पुनर्लसलगौ बतुल्यो पृथक् कार्यों । पुनर्लफषनक्षेत्रं पूर्ण कार्यम् । दकं वनक्षेत्रं लफवनक्षेत्रं मिथः समानं भविष्यति । अस्योपपत्तिः । यदि दवलससमानभुजौ पिण्डौ कल्पित तदा दकं घनक्षेत्रं लफ घनक्षेत्रं हतमगधरातलयोनिष्पत्तौ भविष्यतः । इतमगौ मिथः समानौ स्तः । कुतः । हृदतकोणमलगकोणयोर्मिथः साम्यात् । दहभुजम- १ समानकोणे द्वे वनक्षेत्रे V., and J. २ मध्यनिष्पत्तिभुज ( मध्यभुज- निष्पत्ति ?) J.