सचिह्नात् सगलम्बो हनरेखायां नेयः । पुनर्मचिह्नग चिह्नाभ्याम् अबरेखादहरेखयोरुपरि मफगरौ द्वौ लम्बौ नेयौ । पुनर्जबझहरेखयोरुपरि मखगशौ द्वौ लम्बौ नेयौ । पुनः फखरशकफसरकखसशरेखाः संयोज्याः । तस्मात् बकवर्गः कमवर्गबमवर्गयोर्योगेन समानोऽस्ति | मवर्गस्तु मफवर्गफबवर्गयोगेन समानो भविष्यति । तस्मात् बकवर्गः कमवर्गमफवर्गफबवर्गाणां योगेन समानो भविष्यति । तस्मात् कफम् अबे लम्बो भविष्यति । अनेनैव निश्चितं कखं जबे लम्बो भविष्यति । सरं दहे लम्बो भविष्यति । सरं दहे लम्बो भविष्यति । बफकत्रिभुजे हरसत्रिभुजे वकोणहकोणौ समानौ स्तः । फकोणरकोणौ प्रत्येकं समकोणौ स्तः । बकभुजहसभुजौ मिथः समानौ स्तः । तदा बफं हरं तुल्यं भविष्यति । फकं रसतुल्यं भविष्यति ।
अनेनैव प्रकारेण निश्चितं बखं हशतुल्यं भविष्यति । तस्मात् बफखत्रिभुजे हरशत्रिभुजे बकोणहकोणयोः साम्यात् कोणयोर्भुजयोः साम्याच्च फखरशौ समानौ भविष्यतः । फखरशभुजयोरुपरितनकोणौ मिथः समानौ भविष्यतः । मफखत्रिभुजे गरशत्रिभुजे पूर्वकोणाः समकोणेभ्यश्चेच्छोध्यन्ते तदा द्वौ कोणौ द्वयोः कोणयोः समानाववशिष्यतः । फखरशभुजौ च समानौ स्तः । तस्मात् फसरगौ समानौ भविष्यतः । फकं च रसतुल्यमस्ति । यदि फकवर्गरसवर्गयोः फमवर्गरगवर्गौ चेच्छोध्येते तदा मकवर्गगसवर्गौ समानाववशिष्यतः । पुनर्मकवर्गसवर्गौ[१] बकहससमानवर्गयोः शोध्येते तदा शेषं बमवर्गगहवर्ग समानाववशिष्यतः ।
पुनर्निश्चयः कार्यः ।बकमत्रिभुजे हसगत्रिभुजे भुजा मिथः समानाः सन्ति । तस्मात् मबवकोणनहतकोणौ समानौ भविष्यतः । इदमेवेष्टम् ॥
- ↑ पुनरेतौ वर्गौ बकहसवर्गयोः