पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निष्पत्तितुल्या भविष्यति । फझघनक्षेत्रजदघनक्षेत्रतुल्यखल वनक्षेत्र- योर्निष्पत्तिः अझझलनिष्पत्तितुल्या भविष्यति । तस्मात् अवजवन- क्षेत्रनिष्पत्तिर्भुजयोनिष्पत्तेर्धनतुल्यास्ति | इदमेवेष्टम् || अथ सप्तत्रिंशत्तमं क्षेत्रम् ॥ ३७ ।। समानकोणधरातलद्वये चेन्निषण्णे द्वे रेखे भवतस्तत्र भुज- द्वयरेखासंपातजनितकोणौ द्वितीयरेखाभुजद्वयसंपातजनित- कोणाभ्यां यथाक्रमं चेत्समानौ भवतः पुनर्निषण्णरेखासः 'कस्मादपि चिहादेको लम्बो धरातले नेयः पुनर्लम्वनिपातात् 'कोणपर्यन्तं रेखा कार्या तत्रास्यां रेखायां निषण्णरेखयोत्पनौ कोणौ तदा भविष्यतः । यथा अबजं दहझं द्वौ धरातलकोणौ कल्पितौ । तत्र वज्रहते रेखे तथा निषण्णे कल्पिते यथोत्पन्नः अबवकोण उत्पन्नदहझकोणेन समानो भवति । एवं जबवकोणो झहतकोणेन समानो भवति । पुनर्बबरेखाया हतरेखाया कचिह्नलचिह्नाभ्यां कमलम्बलनलम्बौ अबजकोणधरातले दहझकोणघरातले सचिह्ननचिह्नस्थाने पतिताविति कल्पितौ | पुनर्मबन हे द्वे रेखे योजिते । तस्मात् मबवउत्पन्नकोण- नहत उत्पन्नकोणौ मिथः समानौ भविष्यतः । ब अनोपपत्तिः । बर्क हंस तुल्यं कार्ये यदि बकहलो समानौ न भवतः । पुनः १ हसतुल्यं J. मा० २०