र्घनक्षेत्रयोः समाने संपूर्णे कार्ये । अरजझयोः क्षेत्रयोर्निश्चयेनेष्टसिद्धमस्ति । तस्मात् अबजदयोर्घनक्षेत्रयोरपि । इष्टमस्माकं निश्चितं भविष्यति । कुतः । धरातललम्बयोः साम्यात् । इदमेवेष्टम् ॥
अथ षट्त्रिंशत्तमं क्षेत्रम् ॥ ३६ ॥
समानान्तरधरातलघनक्षेत्रयोःसजातीययोर्निष्पत्ति: सजातीयभुजनिष्पत्तिघनतुल्या भविष्यति ।
यथा अबजदे घनक्षेत्रे कल्पिते । तत्र अझजतयोर्निष्पत्तिः कझसतयोर्निष्पत्तितुल्या हझवतनिष्पत्तितुल्या[१] च कल्पिता । पुनर्हझरेखा वर्द्धनीया । वततुल्यं झनं कार्यम् । पुनः कझरेखा वर्द्धनीया । वततुल्यं झनं कार्यम् । पुनर्गकफझखलानि घनक्षेत्राणि संपूर्णानि कार्याणि । एषु घनक्षेत्रेषु द्वे घनक्षेत्रे क्रमेणैकैकं विहाय चेद्ग्रुह्येते तदा
तेऽभिमुखखसमानान्तरधरातलेन[२][३] कृतसंपाते भविष्यतः । खलघनक्षेत्रं जदघनक्षेत्रस्य समानं भविष्यति । तस्मात् अबगकघनक्षेत्रनिष्पत्तिर्झहझननिष्पत्तितुल्या भविष्यति । गकफझघनक्षेत्रनिष्पत्तिः कझझम-