पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

A र्घनक्षेत्रयोः समाने संपूर्ण कार्ये । अरजझयोः क्षेत्रयोर्निश्चयेनेष्टसिद्ध- मस्ति । तस्मात् अबजदयोर्घनक्षेत्रयोरपि । इष्टमस्माकं निश्चितं भवि- ष्यति । कुतः । धरातललम्बयोः साम्यात् । इदमेवेष्टम् || अथ षट्त्रिंशत्तमं क्षेत्रम् ॥ ३६॥ समानान्तरघरातलघनक्षेत्रयोः सजातीयभुजनिष्पत्तिघनतुल्या भविष्यति । यथा अबजदे घनक्षेत्रे कल्पिते । तत्र अझजतयोनिष्पत्तिः कझ- सतयोर्निष्पत्तितुल्या झवतनिष्पत्तितुल्या च कल्पिता | पुनर्हझरेखा वर्द्धनीया | वततुल्यं झनं कार्यम् । पुनः कझरेखा वर्द्धनीया | सत- तुल्यं झमं कार्यम् । पुनर्गकफझखलानि घनक्षेत्राणि संपूर्णानि कार्याणि । एषु घनक्षेत्रेषु द्वे वनक्षेत्रे क्रमेणैकैकं विहाय चेद्गृह्येते तदा सजातीययोर्निष्पत्तिः तेऽभिमुखखसमानान्तरघरातलेन कृतसंपाते भविष्यतः । खलवनक्षेत्रं जदघनक्षेत्रस्य समानं भविष्यति । तस्मात् अबग कवनक्षेत्रनिष्पत्ति- र्झहझननिष्पत्तितुल्या भविष्यति । गकफघनक्षेत्रनिष्पत्तिः कझझम- १ हझवतयोनिष्पत्ति° V. २ V. has सन्मुख for अभिमुख ३J. has खधरातलसमानान्तर