पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लयोर्निष्पत्तिर्झलवकघरातल्योरपि निष्पत्तिर्वशधरातलेनास्ति । तदेते घनक्षेत्रे समाने भविष्यतः । इदमेवेष्टम् ॥ अथ द्वात्रिंशत्तमं क्षेत्रम् ॥ ३२ ॥ • समानान्तरधरातलघनक्षेत्राणि समानधरातले चेद्भवन्ति पिण्डाथ तद्धरातले लम्बरूपा न भवन्ति लम्बाश्च तुल्या भवन्ति तदैतानि समानानि भवन्ति । यथा बेकरखे बदरतधरातले कल्पिते । यदि असबगजफदछ- लम्बा बदभूतलात् मके भूतले चेत् निष्कास्या हसरखवझतछ- ह लम्बाः शखे भूतले च निष्कास्या उभे क्षेत्रे पूर्णे कार्ये । तदा बकब- छे समाने भविष्यतः । एवं हि रखरछे समाने भविष्यतः । बछरछे समाने आस्ताम् । तस्मात् बकरखे अपि समाने भविष्यतः । इद- मिष्टम् || अथ त्रयस्त्रिंशत्तमं क्षेत्रम् ॥ ३३ ॥ समानान्तरधरातलघनक्षेत्राणां यदि लम्बाः समाना भव- न्ति तदा तेषां निष्पत्तिर्धरातलनिष्पत्तितुल्या भवति । यथा बकझलघनक्षेत्रयोर्बदझते उभे धरातले कल्पिते । पुन- र्जदरेखोपरि झतधरातल तुल्यजनघरातलं कार्यम् । अदनं संपूर्णा सरकरेखा भवति । पुनर्जसं घनक्षेत्रं पूर्ण कार्यम् । यदि जसघन-. Omitted in A., and K. A. K. and J. have in place of ₹ althrough. ३ A., K and D. insert कुतः after कल्पिते; V. has also कुतः on the margin. ४ निष्काश्यन्ते J. ५ तस्मात् V.