लयोर्निष्पत्तिर्झलबकधरातलयोरपि निष्पत्तिर्वशधरातलेनास्ति । तदैते घनक्षेत्रे समाने भविष्यतः । इदमेवेष्टम् ||
अथ द्वात्रिंशत्तमं क्षेत्रम् ॥ ३२ ॥
समानान्तरधरातलघनक्षेत्राणि समानधरातले चेद्भवन्ति पिण्डाश्च[१] तद्धरातले लम्बरूपा न भवन्ति लम्बाश्च तुल्या भवन्ति तदैतानि समानानि भवन्ति ।
यथा बकरखे[२] बदरतधरातले कल्पिते[३] । यदिअसबगजफदछलम्बा बदभूतलात् मके भूतले चेत् निष्कास्या[४] हसरखवझतछलम्बाः शखे भूतले च निष्कास्या[५] उभे क्षेत्रे पूर्णे कार्ये । तदा बछरछे समाने भविष्यतः । एवं हि रखरछे समाने भविष्यतः । बछरछे समाने आस्ताम् । तस्मात् बकरखे अपि समाने भविष्यतः । इदमिष्टम् ॥
अथ त्रयस्त्रिंशत्तमं क्षेत्रम् ॥ ३३ ॥
समानान्तरधरातलघनक्षेत्राणां यदि लम्बाः समाना भवन्ति तदा तेषां निष्पत्तिर्धरातलनिष्पत्तितुल्या भवति ।
यथा बकझलघनक्षेत्रयोर्बदझते उभे धरातले कल्पिते । पुनर्जदरेखोपरि झतधरातलतुल्यजनधरातलं कार्यम् । अदनं संपूर्णा सरलैकरेखा भवति । पुनर्जसं घनक्षेत्रं पूर्णं कार्यम् ।यदि[६] जसघन -