सन्मुखधरातले कल्पिते । अनयोर्भुजाः समाना भविष्यन्ति । कुतः[१] | अजहदधरातले[२] झजअब धरातलवहदतधरातले च समानान्तरिते पतिते स्तः । एवं झवहजधरातलबतदअधरातले पतिते स्तः । तदा जअसंपातरेखाहदसंपातरेखे समानान्तरे भविष्यतः । अनेनैव प्रकारेण जहसंपातरेखाअदसंपातरेखे मिथः समानान्तरे भविष्यतः । एवं झवबत संपातौ समानान्तरौ भविष्यतः । एवं झबवतसंपातौ समानान्तरौ भविष्यतः । तस्मात् अजहदधरातलबझवतधरातले च समानान्तर समानभुजे भविष्यतः । इदमेवेष्टम् ॥
अथ पञ्चविंशतितमं क्षेत्रम् ॥ २५ ॥
समानान्तरधरातलस्य घनक्षेत्रस्य मिथः सन्मुखधरातलयोर्मध्यगतसमानान्तरं धरातलं भागद्वयं चेत् करोति तदा अनयोः खण्डयोर्निष्पत्तिर्धरातलखण्डयोर्निष्पत्तिसमाना[३] भविष्यति ।
यथा अबं घनक्षेत्रं कल्पितम् । अस्य वतअकधरातलबलमनसन्मुखधरातलयोः समानान्तरधरातलेन जदहझेन खण्डद्वयं कृतमिति[४] कल्पितम् । तत्र अजखण्डहबखण्डयोर्निष्पत्तिः अझघरातलखण्डनहधरातलखण्डयोर्निष्पत्तितुल्या[५] भविष्यति ।
अस्योपपत्तिः ।
अमभुज उभयदिशिसगपर्यन्तं वर्द्धनीयः । हअदिशायां अफं फछं हअतुल्यं पृथक्कार्यम् । हमदिशायां मखं खरं हमतुल्यं पृथक्कार्यम् । क्षेत्रं संपूर्णं[६]