अथ द्वाविंशतितमं क्षेत्रम् ॥ २२ ॥
यदि त्रयोः धरातलकोणऻः[१] समानभुजा भवन्ति तेषां प्रत्येकद्वययोगस्तृतीयादधिकोस्ति[२] चेत् तदा तत्कोणसम्मुखभुजेभ्यस्त्रिभुजो भवितुमर्हति तत्र भुजद्वययोगो तृतीयभुजादधिको भविष्यति ।
यथा बहतास्र्यो धरातलकोणाः कल्पिताः । बअबजहदहझतवतकाः समानभुजाः कल्पिताः । पुनर् अजदझवकतत्कोणसन्मुखभुजाः कल्पिताः । यदि सन्मुखभुजा मिथः समाना भवन्ति तदा भुजद्वययोगस्तृतीयभुजादधिको भविष्यति । यदि न्यूनाधिकास्तदा वकम् अधिकं कल्पितम् | जबरेखातो बचिन्हे जबलकोणो हकोणतुल्यः कार्यः । पुनर्बमं बजतुल्यं पृथक्कार्यम् । पुनर्जमअमरेखे संयोज्ये । तस्मात् जमभुजो दझभुजतुल्यो भविष्यति । अजजमयोगोऽस्मादधिकोऽस्ति । अमं वकऻदधिकमस्ति । कुतः । अबमकोणो बकोण हकोणयोगतुल्यस्तकोणाधिकोऽस्ति । भुजाश्च मिथः समानाः सन्ति । तस्मात् अजजमयोगो वकादधिको भविष्यति । इदमेवेष्टम् ॥
अथ त्रयोविंशतितमं क्षेत्रम् ॥ २३ ॥
ताद् धरातलकोणेभ्यः पृथक् घनकोणचिकीर्षास्ति येषां धरातलकोणानां योगश्चतुर्भ्यः समकोणेभ्यो न्यूनः स्यात् प्रत्येककोणद्वययोगस्तृतीयकोणादधिकः स्यात् ।