अथ सप्तदशं क्षेत्रम् ॥ १७ ॥
यावन्ति धरातलानि समानान्तराणि द्वयो रेखयोः संपातं कुर्वन्ति तानि रेखयोरेकनिष्पत्तौ संपातं करिष्यन्ति ॥
यथा हझबतधरातलं कलमनधरातलं सगफछधरातलं चैतानि समानान्तराणि अबरेखाया असबचिन्हेषु जदरेखाया जशदचिह्नेषु संपातं कुर्वन्तीति कल्पितानि । पुनर्बजअजबदरेखा योज्याः । बजरेखा कलमनधरातले तचिह्ने संपातं करोति । पुनस्तसरेखा तशरेखा संयोज्या । तत्र हवकमाभ्यां अबजत्रिभुजे अजतसरेखयोः संपातः कृतः । तत्र अजतसरेखे समानान्तरे भविष्यतः । एवं बदतशरेखे समानान्तरे भविष्यतः । तस्मात् अससबनिष्पत्तिर्जततवनिष्पत्तुतिल्या जशशदनिष्पत्तितुल्या च भविष्यति । इदमिष्टम् ॥[१]
अथाष्टादशं क्षेत्रम् ॥ १८ ॥
एकस्मिन् धरातले यो लम्बो भवति तत्संसक्तधरातलं तस्मिन् धरातले लम्बो भविष्यति ।
यथा अबम् एकस्मिन् धरातले लम्बोऽस्ति । अत्र एकं धरातलं संलग्नम् । उभयोर्धरातलयोर्जदसंपातरेखा उत्पन्ना । अत्र हचिह्नं कल्पितम् । हझलम्बो जदरेखायाः संलग्नधरातले कार्यः । अयं प्रथमधरातले लम्बो भविष्यति । या रेखा अस्मिन् धरातले हचिह्नात् निःसृतास्ताः सर्वा अपि प्रथमधरातले लम्बो भविष्यति । एवं यच्चिह्नं जदरेखायां भवति तत्रैतादृशमेव भवति । तस्मात् द्वयोर्घरातलयोः संपातः समकोणो भविष्यति ॥
- ↑ इदमेवेष्टम् J.
मा० १८