पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सप्तदर्श क्षेत्रम् ॥ १७ ॥ यावन्ति धरातलानि समानान्तराणि द्वयो रेखयोः संपात कुर्वन्ति तानि रेखयोरेकनिष्पत्तौ संपातं करिष्यन्ति ॥ 'झ यथा इझवतघरातलं कलमनघरातलं सगफछवरातलं चै- तानि समानान्तराणि अवरेखाया असबचिद्वेषु जदरेखाया जशदचिद्वेषु संपातं कुर्वन्तीति कल्पितानि | पुनर्बजअजनदरेखा योज्याः | बजरेखा कलमनधरातले तचिह्ने संपातं क- "रोति । पुनस्तसरेखा तशरेखा संयोज्या | तत्र हवकमाभ्यां अवजत्रिभुजे अजतसरेखयोः सं पातः कृतः । तत्र अजतसरेखे समानान्तरे भविष्यतः । एवं बदतश रेखे समानान्तरे भविष्यतः । तस्मात् अससवनिष्पचिर्जततवनिष्प- तितुल्या जशशदनिष्पत्तितुल्या च भविष्यति । इदमिष्टम् ॥ अथाष्टादर्श क्षेत्रम् ॥ १८ ॥ एकस्मिन् धरातले यो लम्बो भवति तत्संसक्तधरातलं तस्मिन् धरातले लम्बो भविष्यति । यथा अवम् एकस्मिन् घरातले लम्बोऽस्ति । अत्र एक घरातलं संलग्रम् | उमयोर्धरातलयोर्जद संपातरेखा उत्पन्ना । अत्र हचिह्नं कल्पितम् 1 हझल- म्बो जदरेखायाः संलग्नघरातले कार्यः । अयं प्रथमघरातले लम्बो भविष्यति । या रेखा अस्मिन् धरातले हचिह्नात् निःसृता- स्ताः सर्वा अपि प्रथमधरातले लम्बो भविष्यति । एवं यचिह्नं जद- रेखायां भवति तत्रैतादृशमेव भवति । तस्मात् द्वयोर्धरातलयोः संपातः समकोणो भविष्यति ॥ १ इदमेवेष्टम् J. मा० १८