अथ दशमं क्षेत्रम् ॥ १० ॥
तदैककोणभुजौ तदन्यकोणभुजयोः समानान्तरौ[१] भवतः पुनरेतौ एकधरातले न भवतस्तदेतौ कोणौ समानौ भविष्यतः ।
यथा बकोणहकोणौ कल्पितौ । बअभुजो दहभुजस्य समानान्तरः कल्प्यः । बजभुजो हझभुजस्य समानान्तरः कल्प्यः । पुनर्बअहदौ समानौ पृथक् पृथक् कृतौ । एवं बजहझौ समानौ पृथक् पृथक् कृतौ । अजं दझम् अदं बहं जझं रेखाः संयोज्याः । अदं जझं प्रत्येकं बहात् समानं समानान्तरं[२] चास्ति । एतावपि समानौ समानान्तरौ भविष्यतः । तदा अजदझावपि समानौ
समानान्तरौ[३] भविष्यतः । तस्मात् अबजत्रिभुजदहझत्रिभुजयोर्भुजौ मिथः समानौ भविष्यतः । बकोणकोणावपि समानौ भविष्यतः । इदमेवास्माकमिष्टम्[४] ||
अथैकादशं क्षेत्रम् ॥ ११ ॥
एकस्मिन् धरातले पिण्डात् लम्बनिष्कासनमिष्टमस्ति[५] ।
यथा अचिह्नात् वजधरातले लम्बो निष्कासितव्यः । तत्र धरातले बजरेखा कल्पिता । अचिह्नात्बजरेखायाम् अदलम्बो निष्कास्यः[६] । दचिह्नात्तस्मिन्नेव
धरातले दहलम्बो निष्कास्यः[७] । अचिह्नात् दहोपरि अझलम्बो निष्कास्यः[८] । अयं धरातले लम्बो भविष्यति । कुतः । झचिह्नात् झवतरेखा तत्र धरातले बजसमानान्तरा कार्या । तस्मात् बजरेखा अझदत्रिभुजस्य धरातले लम्बो भविष्यति । तवमपि लम्बो भविष्यति । तदा अझं धरातले लम्बो भविष्यति । इदमेवेष्टम् ॥