पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रपि समानभावित्वेन वदककोणबजतकोणयोः समानभावित्वेन च बतभुजबकभुजौ समानौ भविष्यतः | वक्रवत्रिभुजे वतवत्रिभुजे च मिथो भुजयोः साम्येन बबतकोणबबककोणौ समानौ भविष्यतः | तस्मात् बचतकोणबबककोण समकोणौ भविष्यतः । अनेनैव प्रकारेण तस्मिन्नेव धरातले बचिह्नगता रेखा कल्प्यते । अबरेखया तस्याः संपातः समकोणो भविष्यति । तस्मात् अबरेखा तत्र धरातले लम्बो भविष्यति । इदमेवेष्टम् || अथ पञ्चमं क्षेत्रम् ॥ ५॥ यास्तियो रेखा एकस्मिन् विहे संपात करिष्यन्ति तत्सं- पातचिहात् यो लम्बस्तिसृषु रेखासु पतति तदा ता रेखा एकधरातले भविष्यन्ति | यथा बजे बदं बह रेखा वैचिह्ने संपातकारिण्यः कल्पिता: । अबरेखा तिसूपु रेखासु लम्बः कल्पितः । यद्येता रेखा एक स्मिन् धरातले न भवन्ति तदा यस्मिन् धरातले बजबहे रेखे स्तस्तदन्यत्र धरातले बदरेखा क- ल्प्या । यस्मिन् धरातले अबबदरेखे स्वस्ते उसे घरातले मिथ: समानान्तरे न मैवेताम् । कुतः । बचिहे मिलितत्वात् । तदा बझरेखानयोः सं- पातरेखा कल्पिता । तस्मात् अबदअबझकोणौ प्रत्येकं समकोणौ भवतः । एकं च द्वितीयखण्डमस्ति । इदमशुद्धम् । अस्मदिष्टं समी- चीनम् ॥ अथ षष्ठं क्षेत्रम् ॥ ६॥ यो द्वौ लम्बावेकस्मिन् धरातले भवतस्तो मिथः समा- नान्तरौ भवतः । १. J. inserts तथा after समानभावित्वेन. २. एवं तस्मिन्नेव. J. ३. बचिह्नसंपविता: K, A, J. ४. एकधरातले J. ५. J. Omits मिथः ६. स्याताम् उ. ७. J. Omits कुतः ८. द्वितीयस्य खण्ड V., व.