रपि समानभावित्वेन[१] वदककोणबजतकोणयोः समानभावित्वेन च वतभुजवकभुजौ समानौ भविष्यतः । वकबत्रिभुजे बतबत्रिभुजे च मिथो भुजयोः साम्येन वबतकोणवबककोणौ समानौ भविष्यतः । तस्मात् वबतकोणवबककोणौ समकोणौ भविष्यतः । अनेनैव[२] प्रकारेण तस्मिन्नेव धरातले बचिह्नगता रेखा कल्प्यते । अबरेखया तस्याः संपातः समकोणो भविष्यति । तस्मात् अबरेखा तत्र धरातले लम्बो भविष्यति । इदमेवेष्टम् ॥
अथ पञ्चमं क्षेत्रम् ॥ ५ ॥
यास्तिस्रो रेखा एकस्मिन् चिन्हे संपातं करिष्यन्ति तत्संपातचिह्नात् यो लम्बस्तिसृषु रेखासु पतति तदा ता रेखा एकधरातले भविष्यन्ति ।
यथा बजं बदं बहं रेखा बचिन्हे[३] संपातकारिण्यः कल्पिताः। अबरेखा तिसृषुरेखा लम्बः कल्पितः । यद्येता रेखा एकस्मिन्[४] धरातले न भवन्ति तदा यस्मिन् धरातले बजबहे रेखे स्तस्तदन्यत्र धरातले बदरेखा कल्प्या । यस्मिन् धरातले अबबदरेखे स्तस्ते उभे धरातले मिथः[५] समानान्तरे न भवेताम्[६] । कुतः[७] ।बचिन्हे मिलितत्वात् । तदा बझरेखानयोः संपातरेखा कल्पिता । तस्मात् अबदअबझकोणौ प्रत्येकं समकोणौ भवतः । एकं च द्वितीयखण्डमस्ति[८] । इदमशुद्धम् । अस्मदिष्टं समीचीनम् ॥
अथ षष्ठं क्षेत्रम् ॥ ६ ॥
यौ द्वौ लम्बावेकस्मिन् धरातले भवतस्तौ मिथः समानान्तरौ भवतः ।