सामग्री पर जाएँ

पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१४६

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति
१३०

प्रकारान्तरम् ॥


 चिन्हचिह्ने अबजदधरातले स्तः । एकधरातलगतचिन्हद्वये एका रेखा योजयितुं शक्यते । तस्मात् अबजदधरातले कलरेखा योज्या | पुनरपि चिह्नचिहे हझवतधरातले स्तः । अस्मिन्नपि धरातले चिह्नद्वये कलरेखा संयोजितास्ति । द्वयोचिन्हयो: सरला एकैव रेखा लगति । तस्मात् कलम् एकैव रेखा धरातलद्वये भविष्यति ॥

अथ चतुर्थं क्षेत्रम् ॥ ४ ॥


 द्वे रेखे यद्येकचिन्हे संपातं कुरुतः संपातचिह्नादेको लम्बो रेखाद्वये भवति तदा यस्मिन् धरातले ते द्वे रेखे स्तस्तत्र स लम्बो लम्ब एव भवति ।
 यथा जदहझरेखे चिह्ने कृतसंपाते कल्पिते । अनयोरुपरि अबरेखा लम्बः कल्पितः । पुनर्बजं बहं बदं बझं समानं पृथक् कार्यम् । पुनरबलम्बोपरि चिन्हं कल्पितम् । पुनर्जवं हवं झवं दवं रेखाः संयोज्याः । तत्र चत्वारि त्रिभुजानि भविष्यन्ति । तेषां भुजाः कोणाश्च मिथः समाना भविष्यन्ति । पुनर्जहरेखा दझरेखा च संयोज्या ।जबहत्रिभुजदबझत्रिभुजयोरपि भुजौ कोणौ मिथः समानौ भविष्यतः । वजहत्रिभुजस्य वदझत्रिभुजस्य च भुजौ कोणौ च मिथः समानौ भविष्यतः । यस्मिन् धरातले जदहझरेखे स्तस्तस्मिन् तबकरेखा चिन्हगता कार्या । पुनस्तवरेखा कवरेखा च संयोज्या । बजतत्रिभुजे बदकत्रिभुजे चिन्हसंपातसन्मुखकोणयोः साम्येन बजतकोणबदककोणयोः साम्येन च बजभुजबदभुजयोः साम्येनापि जतभुजतबभुजौ दकभुजकबभुजयोः समानौ भविष्यतः । वजतत्रिभुजेवदकत्रिभुजे वदवजभुजयोः समानभावित्वेन जतभुजदकभुजयो-