पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकारान्तरम् || कचिह्नलचिह्ने अबजदधरातले स्तः । एकधरातलगतचिह्नद्वये एका रेखा योजयितुं शक्यते । तस्मात् अबजदधरातले कलरेखा योज्या | पुनरपि कचिह्नलचिहे हझवतधरातले स्तः । अस्मिन्नपि घरातले चिह्नद्वये कलरेखा संयोजितास्ति । द्वयोश्चियोः सरला एकैव रेखा लगति । तस्मात् कलम् एकैव रेखा धरातलद्वये भविष्यति ॥ अथ चतुर्थ क्षेत्रम् ॥ ४॥ द्वे रेखे यद्येकचिह्ने संपातं कुरुतः संपातचिहादेको लम्बो रेखाइये भवति तदा यस्मिन् धरातले ते द्वे रेखे स्वस्तत्र स लम्बो लम्ब एव भवति । यथा जदहझरेखे बचि कृतसंपाते कल्पिते । अनयोरुपरि अब- रेखा लम्बः कल्पितः | पुनर्बजं बहं बदं बझं समानं पृथक् कार्यम् । पुनरबलम्बोपरि बचि कल्पितम् | पुनर्जवं हवं झवं दवं रेखाः संयोज्याः । तत्र चत्वारि त्रिभुजानि भविष्यन्ति । तेषां भुजाः कोणाश्च मिथः समाना भविष्यन्ति । पुनर्जहरेखा दझरेखा च संयोज्या | जबहत्रि- भुजदबझत्रिभुजयोरपि भुजौ कोणौ मिथः स- मानौ भविष्यतः । वजह त्रिभुजस्य वदझत्रि- भुजस्य च भुजौ कोणौ च मिथः समानौ भवि- ज व्यतः । यस्मिन् धरातले जदहझरेखे स्तस्तस्मिन् तबकरेखा बचिह गता कार्या । पुनस्तवरेखा कवरेखा च संयोज्या | बजतत्रिभुजे बदकत्रिभुजे बचिह्नसंपात सन्मुखकोणयोः साम्येन बजतकोण- बदककोणयोः साम्येन च बजभुजबदभुजयोः साम्येनापि जतभुज- तबभुजौ दकभुजकबभुजयोः समानौ भविष्यतः । वजतत्रिभुजे वदकत्रिभुजे वदवजभुजयोः समानभावित्वेन जतभुजदकभुजयो-