अथ[१] द्वितीय क्षेत्रम् ॥ २ ॥
ये द्वे सरलरेखे[२] मिथः संपातं कुरुतस्ते एकस्मिन् धरातले भवतः यत्रिभुजं तदप्येकस्मिन् धरातले भवति ।
यथा अबजदे द्वे रेखे हचिह्न संपातकारिण्यौ[३] कल्पिते । पुनरनयोः झचिह्नवचिह्ने कल्पिते । झवरेखा संलग्ना कार्या । तस्मात् हझवत्रिभुजमेकधरातले भविष्यति । यदि न भवति तदा कस्यापि भुजस्यैकं खण्डं धरातले भविष्यति । द्वितीयं च पिण्डे । इदमशुद्धम् । ते कल्पिते रेखे त्रिभुजधरातले स्तः । तस्मात्ते रेखे एकस्मिन् धरातले जाते । इदमेवेष्टम् ॥
अथ तृतीयं क्षेत्रम् ॥ ३ ॥
द्वे धरातले यदि मिथः संपातं कुरुत एतयोः संपाते एकैव[४] सरल रेखा भवति ।
यथा अबजदमेकं धरातलं हझवतं द्वितीयं धरातलम् | अदभुजतवभुजयोः संपातः कचिह्ने कल्पितः । बजभुजहझभुजयोः संपातः लचिह्ने कल्पितः । यदि कचिह्नसंपोतलचिह्नसंपातयोर्या[५] रेखा लग्ना सा धरातलद्वयेप्येका न भवति तदैकस्मिन् धरातले कमलरेखा कल्पिता । द्वितीयधरातले कनलरेखा कल्पिता । एते रेखे सरले स्तः । आभ्यां स्थानद्वये मिथः संपातः कृतः । इदमशुद्धम् । तस्मात् कलं धरातलद्वये एकैव योज्यरेखा[६] भविष्यति । इयमेव धरातलद्वयसंपातयोज्यरेखास्ति । इदमेवास्माकमिष्टम्[७] ॥
भा० १७