पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ १० समकोणचतुर्भुजक्षेत्रैकभुजंभ्रमणेन यत् क्षेत्रं कूपाकारं भवति तत् समतलमस्तक परिधिरूपं शङ्कुघनक्षेत्रं भवति । ११ अस्य क्षेत्रस्य स्थिरभुजो लम्बो भवति । १२ समकोणत्रिभुजक्षेत्रस्य समकोणभुजं स्थिरं कृत्वा त्रिभुजभ्रमणेन यत् क्षेत्रमुत्पद्यते स शङ्कुर्भवति । १३ यदि समकोणसंबंन्धिभुजौ समानौ भक्तस्तदा शङ्कशिरसि स- मानकोणो भवति । १४ यदि स्थिरभुजो द्वितीयसुजादधिको भवति तदा शङ्कर्न्यूनकोणो भविष्यति । १५ यदि स्थिरभुजो न्यूनो भवति तदा शङ्करधिककोणो भवति । १६ अस्य शङ्कोः स्थिरभुज एवं लम्बो भवति । १७ व्यादिधरातलयोगजनितकोणो धनकोणो भवति । १८ शङ्कुक्षेत्रसमतलमस्तकशङ्कुक्षेत्रयोः स्खलम्बव्यासयोनिष्पत्तिः समाना यदि भवति तदा ते क्षेत्रे सजातीये भक्तः | ॥ इति परिभाषा || अथ प्रथमं क्षेत्रम् ॥ १ ॥ एकस्या: सरलरेखाया एकं खण्डं धरातले एक पिण्डे भवितुं नार्हति । यदि भवति तदा अबजे सरला रेखा कल्पिता । अस्या अबखण्डं घरातले बजखण्डं पिण्डे कल्पितम् । धरातले तु रेखा वर्द्धयितुं शक्यते । अवरेखा घरातले एवं दचिह्नपर्यन्तं वर्द्धनीया । अबजरेखाअबदरेखे एकरूपे भवतः । इदमशुद्धम् । अ- स्मदिष्टं समीचीनम् || १ भुजो निषण्णो यथा भवति तक्रमणेन K., योगजनित्तकोणो घनकोणो भवति । K, A, J. L -द A., J. २ घरातलकोणानां ३ प्रथमक्षेत्रम् V.