१० समकोणचतुर्भुजक्षेत्रैकभुजैभ्रमणेन[१] यत् क्षेत्रं कूपाकारं भवति तत् समतलमस्तकपरिधिरूपं शङ्कुघनक्षेत्रं भवति ।
११ अस्य क्षेत्रस्य स्थिरभुजो लम्बो भवति ।
१२ समकोणत्रिभुजक्षेत्रस्य समकोणभुजं स्थिरं कृत्वा त्रिभुजभ्रमणेन यत् क्षेत्रमुत्पद्यते स शङ्कुर्भवति ।
१३ यदि समकोणसंबंन्धिभुजौ समानौ भवतस्तदा शङ्कुशिरसि समानकोणो भवति ।
१४ यदि स्थिरभुजो द्वितीयभुजादधिको भवति तदा शङ्कुर्न्यूनकोणो भविष्यति।
१५ यदि स्थिरभुजो न्यूनो भवति तदा शङ्कुरधिककोणो भवति ।
१६ अस्य शङ्कोः स्थिरभुज एव लम्बो भवति।
१७ त्र्यादिघरातलयो[२] गजनितकोणो धनकोणो भवति ।
१८ शङ्कुक्षेत्र समतलमस्तकशङ्कुक्षेत्रयोः खलम्बव्यासयोर्निष्पत्तिः समाना यदि भवति तदा ते क्षेत्र सजातीये भवतः ।
॥ इति परिभाषा ॥
अथ[३] प्रथमं क्षेत्रम् ॥ १ ॥
एकस्याः सरलरेखाया एकं खण्डं धरातले एक पिण्डे भवितुं नार्हति ।
यदि भवति तदा अबजं सरला रेखा कल्पिता । अस्या अबखण्डं धरातले बजखण्डं पिण्डे कल्पितम् ।
धरातले तु रेखा वर्द्धयितुं शक्यते । अबरेखा धरातले एव दचिह्नपर्यन्तं वर्द्धनीया । अबजरेखाअबदरेखे एकरूपे भवतः । इदमशुद्धम् । अस्मदिष्टं समीचीनम् ॥