अथैकादशोऽध्यायः।।११।।
अस्मिन्नेकचत्वारिंशत् क्षेत्राणि सन्ति।।
तत्रादौ[१] परिभाषा।।
१ यस्य क्षेत्रस्य दैर्घ्यं[२] विस्तारः पिण्डश्चोपलभ्यते तत् घनक्षेत्रसंज्ञकं भवति । इदं क्षेत्रं घरातलेषु संपूर्णं भवति।
२ घरातले शङ्कुरूपा निषण्णा या रेखा भवति तन्मूलात् सर्वतो[३] निसृता रेखा यदि मूलयोगेन समकोणमुत्पादयन्ति तदा सा रेखा घरातले लम्बो भवति ।
३ घरातलेऽन्यघरातलं भित्तिवत् संलग्नं यदि भवति तद्योगतो निसृतरेखाभ्यां यदि समकोणो भवति तदा संलग्न्ं घरातलं लम्बबद्भवति।
४ ये घरातले उभयतो वर्द्धिते यदि न मिलतस्तदा ते समानान्तरे भवतः ।
५ येषां घनक्षेत्राणां घरातलानि सजातीयानि संख्यया समानानि क्षेत्रफलेनापि समानानि स्युस्तानि समानानि सजातीयानि भवन्ति ।[४]
६ यदि तेषां[५] घरातलानां क्षेत्रफलानि समानानि न भवन्ति तदैतानि[६] केवलसजातीयानि भवन्ति ।
७ यस्य घनक्षेत्रस्य द्वे घरातले त्रिभुजे भवतस्त्रीणि घरातलानि समानान्तरभुजचतुर्भुजानि भवन्ति तच्छेदितघनक्षेत्रं भवति ।
८ व्यासोपरि सर्वतो वृत्तभ्रमणेन यद् घनफलमुत्पद्यते तद् गोलक्षेत्रं भवति ।
९ अनेकास्रघरातलान्निःसृतानि[७] सूच्यग्रघरातलानि यदयेकत्र मिलन्ति तत् क्षेत्रं सूचीफलकशङ्कुघनक्षेत्रं[८] भवति ।