मध्यरेखातः करणीरूपा रेखा बह्वयं[१] च उत्पत्स्यन्ते तासां मध्ये कापि द्वितीयोत्पन्ना प्रथमानुकारा न भवति ।
यथा अबरेखा अङ्कसंज्ञार्हा कल्पिता । अस्यां अझरेखा लम्बरूपा कल्पिता । अजं अझे मध्यरेखा कल्पिता । पुनर् अहक्षेत्रं संपूर्णं[२] कार्यम् । इदं अहक्षेत्रं मध्यक्षेत्रं न भविष्यति । कुतः । मध्यक्षेत्रतुल्यम् अबरेखायां क्षेत्रं यदि क्रियते तदोत्पन्नभुजवर्गोऽङ्कसंज्ञा भवति । अहक्षेत्रोत्पन्नभुजश्च मध्यरेखास्ति । पुनर्जदरेखावर्गः अहक्षेत्रतुल्योऽस्तीति कल्पितम् । इयं जदरेखा अजरेखासदृशी न भवति । पुनर्दहक्षेत्रं संपूर्णं[३] कार्यम् । इदं दहक्षेत्रम् अहक्षेत्रसदृशं न
भविष्यति । कुतः । अहक्षेत्रस्योत्पन्नभुजो मध्योऽस्ति । दहक्षेत्रस्योत्पन्नभुजो जदमस्ति । पुनर्दहक्षेत्रतुल्यो यद्रेखावर्गों भवति सापि जदरेखासदृशी न भविष्यति । अजरेखासदृशी न भविष्यति । अनेनैव प्रकारेण तद्रेखातो जझरेखातुल्यं पृथक्रियते क्षेत्राणि च क्रियन्ते तदा तादृश्यो बह्वयोः रेखा भविष्यन्ति परं पूर्वानुकारा न भवेयुः ।
श्रीमद्राजाधिराजप्रभुवरजयसिंहस्य तुष्ट्यै द्विजेन्द्रः
श्रीमत्सम्राड् जगन्नाथ इति समभिधारूढितेन प्रणीते ।
ग्रन्थेऽस्मिन्नामि रेखागणित इति सुकोणावबोधप्रदात
र्घ्यध्यायोऽध्ये तृमोहापह इह विरतिं दितिः संगतोऽभूत् ॥
॥ इति श्रीसम्राड्जगन्नाथविरचिते रेखागणिते
दशमोऽध्यायः संपूर्णः ॥ १० ॥