सामग्री पर जाएँ

पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१४१

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति
१२५

मिथो भविष्यतः । अनयोः केवलवर्गाङ्कसंज्ञार्हौ भविष्यतः । वकं तृतीयान्तररेखा तदा भविष्यति यदा हकरेखावर्गो हवरेखावर्गस्य हकमिलितरेखावर्गस्य च योगेन तुल्यो भविष्यति । पुनः सैव बकरेखा षष्ठयन्तररेखा तदा भविष्यति यदा हकरेखावर्गो हवरेखावर्गस्य हकभिन्नरेखावर्गस्य च योगेन तुल्यो भवति । तस्मात् यद्रेखावर्गों जबक्षेत्रतुल्यो भवति सा द्वितीयमध्यान्तररेखा वा मध्ययुक्तमध्यरेखा भविष्यति ॥

अथ १०८ क्षेत्रम्।।

 अन्तररेखा योगरेखा न भवति ।
 यदि भवति तदा कल्पितम् अरेखा अन्तररेखा भवति योगरेखापि । बजम् अङ्कसंज्ञार्हरेखा कल्पिता । अरेखावर्गतुल्यं क्षेत्रं बजरेखायां दजक्षेत्रं कार्यम् । तदोत्पन्नो वदभुजः प्रथमयोगरेखा भविष्यति । कुतः । अरेखाया योगरेखात्वात् । स एवोत्पन्नो बदभुजः प्रथमान्तररेखा भविष्यति । यतः अरेखा अन्तररेखास्ति ।तदा कल्पितं बदरेखाया झचिह्ने योज्यखण्डे बझं महत्खण्डं कल्पितम् । इदं बझम् अङ्कंसज्ञार्हरेखा भविष्यति । झदं केवलवर्गाङ्कसंज्ञा रेखा भविष्यति । बदरेखया दहरेखा संलग्ना तथा कल्प्या यथा बदरेखां पूर्वरूपां करोति । तस्मात् बहरेखा अङ्कसंज्ञार्हा रेखा भविष्यति । हदरेखा केवलवर्गाङ्कसंज्ञार्हास्ति । शेषं झहरेखा अङ्कसंज्ञार्हा भविष्यति । तस्मात् झहरेखा झदरेखया वा दहरेखया सह केवलवर्गाङ्कसंज्ञार्हा भविष्यति । तस्मात् दहरेखा वा दझरेखा अन्तररेखा भविष्यति । अस्या एव दहरेखाया बदझरेखाया वर्गोऽङ्कसंज्ञार्ह आसीत् । इदमशुद्धम् । अस्मदिष्टं समीचीनम् ॥