भवति । तदा द्वितीयरेखापि तथैव भविष्यति । तस्मात् अजं यान्तररेखा भवति दझमपि तथैवान्तररेखा भविष्यति ॥
अथ १०१ क्षेत्रम्।।
मध्यान्तररेखया या मिलिता रेखा भवति सा मध्यान्तररेखासदृशी भवति ।
यथा अजं प्रथममध्यान्तररेखा वा द्वितीयमध्यान्तररेखा कल्पिता । तद्रेखा मिलिता दझरेखा कल्पिता । पुनर् अजरेखया लग्ना जबरेखा तथा कल्प्या यथा सा अजरेखां पूर्वरूपां करोति । दझझहयोर्निष्पत्ति: अजजबनिष्पत्तितुल्यास्ति ।प्रत्येकम् अबजबौ दहहझाभ्यां मध्यखजातीयेन मिलितौ स्तः । यादृशो मध्यसजातीयोऽस्ति तावत्तथैव प्रत्येकम् अबबजयोर्मध्योऽस्ति । अबबजौ भिन्नौ स्तः । तस्मात् दहहझावपि भिन्नौ भवेताम् | अबवर्गनिष्पत्तिः अबबजघातेन तथास्ति यथा दहवर्गनिष्पतिर्दहहझघाते नास्ति । अबवर्गदहवर्गयोर्निष्पत्तिः अबबजघातदहझहघातनिष्पत्तया समानास्ति।अबवर्गदहवर्गौ मिलितौ स्तः।तस्मात् अबबजघातदहझघातावपि मिलितौ भविष्यतः ।
यदि अबबजघातोऽङ्कसंज्ञार्हो भवति तदा दहहझघातोऽप्यङ्कसंज्ञार्हो भविष्यति । यदि अबबजघातो मध्यो भवति तदा दहहघातोऽपि मध्यो भविष्यति । क्षेत्रं[१] च पूर्ववत्
अथ १०२ क्षेत्रम्।।
न्यूनरेखया मिलिता रेखा न्यूना भवति ।
यथा अं न्यूना रेखा कल्पिता । तन्मिलिता बरेखा कल्पिता । अन-
- ↑ V. inserts द्वयोर्मध्यान्तररेखयोर्मध्येऽन्तररेखा अजं यथा भवति तथैव मध्यान्तरं दझमपि भविष्यति.