अथ ९५ क्षेत्रम्।।
अङ्कसंज्ञार्हरेखायां प्रथममध्यान्तररेखावर्गतुल्यं क्षेत्रं कार्यं तदोत्पन्नो भुजो द्वितीयान्तररेखा भविष्यति ।
प्रकारः क्षेत्रं च पूर्ववत् । परं च दनक्षेत्रनझक्षेत्रे मध्यमिलिते भविष्यतः । तस्मात् हझक्षेत्रं मध्यं भविष्यति । दझरेखायाः केवलवर्गोऽङ्कसंज्ञार्हो भविष्यति । पुनर्झतक्षेत्रतुल्यो[१] द्विगुणअजजबघातोऽङ्कसंज्ञार्हो भविष्यति । तस्मात् झबरेखा अङ्कसंज्ञार्हा भविष्यति । झदरेखावर्गो झवरेखावर्गस्य हदरेखामिलितरेखावर्गस्य च योगेन तुल्यो भविष्यति । कुतः ।दममझयोर्मिलितत्वात् । तस्मात् दवरेखा द्वितीयान्तररेखा भविष्यति ॥
अथ ९६ क्षेत्रम्।।
अङ्कसंज्ञार्हरेखोपरि द्वितीयमध्यान्तररेखावर्गतुल्यं क्षेत्रं कार्यं तदोत्पन्नभुजस्तृतीयान्तररेखा भविष्यति ।
अस्य प्रकारः क्षेत्रं च पूर्ववत् । परं च हझक्षेत्रमपि मध्यं भविष्यति । दननझयोर्मध्ये मिलितत्वात् । दझवर्गः केवलमङ्कसंज्ञार्होऽस्ति । तझक्षेत्रमपि मध्योऽस्ति । प्रथममध्याद्भिन्नोऽस्ति । अजजवयोर्भिन्नत्वात् । तस्मात् झबरेखापि केवल वर्गाङ्कसंज्ञार्हा भविष्यति । दझाद्भिन्ना भविष्यति । दझवर्गो झववर्गस्य दझमिलितरेखावर्गयोगेन तुल्यो भविष्यति । कुतः । दममझयोर्मिलितत्वात् । तस्मात् दवं तृतीयान्तररेखा भविष्यति ॥
- ↑ ॰तुल्य॰ A.