अथ ९४ क्षेत्रम्।।
अङ्कसंज्ञार्हरेखायामन्तररेखावर्गतुल्यं क्षेत्रं कार्यं तदोत्पन्नो द्वितीयभुजः प्रथमान्तररेखा भविष्यति ।
यथान्तररेखा अर्थ कल्प्या । यान्तररेखा[१] अनया मिलित्वा प्रथमरूपं करोति सा बजरेखा कल्पिता । अङ्कसंज्ञार्हरेखा च दहं कल्पिता ।पुनर्दहरेखोपरि अबवर्गतुल्यं दतक्षेत्रं कार्यम् । तस्मादुत्पन्नो दवभुजः प्रथमान्तररेखा भविष्यति । उपपत्तिः ।
पुनर्दहरेखायाम् अजवर्गतुल्यं दनक्षेत्रं कार्यम् । बजवर्गतुल्यं च नझक्षेत्रं कार्यम् । तस्मात् तझक्षेत्रं द्विगुणअजजबघातसमानं भविष्यति । पुनर्वझरेखा कचिन्हेऽर्द्धिता कार्या । पुनः कलरेखा दहरेखायाः समानान्तरा कार्या । अजजबवर्गावङ्कसंज्ञार्हो स्तः[२] । ततो दनक्षेत्रनझक्षेत्रे दमरेखामझरेखे अपि मिलिताङ्कसंज्ञार्हे भविष्यतः । तस्मात् दझरेखा संपूर्णाङ्कसंज्ञार्हा भविष्यति । अजजबघातो मध्यक्षेत्रतुल्योऽस्ति । तदा झलक्षेत्रझतक्षेत्रे अपि मध्यक्षेत्रे भविष्यतः । झववर्गोऽप्यङ्कसंज्ञार्हो भविष्यति । दहरेखाया दझरेखाया भिन्नो भविष्यति । पुनर्अजजबघातः अजवर्गबजवर्गमध्ये एकनिष्पत्तावस्ति[३] । तस्मात् झलक्षेत्रं दनक्षेत्रनझक्षेत्रमध्ये एक निष्पत्तौ भविष्यति । पुनर्दमझकनिष्पत्तिः झकरेखाझमरेखानिष्पत्तितुल्यास्ति । यदि झकवर्गतुल्यझववर्गचतुर्थांशतुल्यं क्षेत्रं दझरेखाखण्डे तथा कार्यं यथा शेषखण्डक्षेत्रं वर्गरूपं भवति दझरेखायामचिन्हे मिलिते द्वे खण्डे भविष्यतः । पुनर्दझरेखावर्गो झबरेखावर्गस्य दझरेखामिलितरेखावर्गस्य च योगेन तुल्यो भविष्यति । अस्मदिष्टं समीचीनम्॥