पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समकोणसमचतुर्भुजात् भिन्नं भविष्यति । तस्मात् गसरेखास फरेखे मिथो मिन्ने भविष्यतः | फगं चान्तररेखा भविष्यति । एवं यस्या रेखाया वर्गों बह्मक्षेत्रेण तुल्यो भवति सैवान्तररेखा भविष्यति ॥ अथ ८९ क्षेत्रम् || यदि क्षेत्रस्यैको भुजोऽङ्कसंज्ञा भवति द्वितीयभुजो द्वि- तीयान्तररेखा भवति तदा यस्था रेखाया वर्गोऽनेन क्षेत्रेण तुल्यो भवति सा प्रथममध्यान्तररेखा भवति । अस्य प्रकारः क्षेत्रं च पूर्ववत् । परं च हबक्षेत्रतुल्यं समसमकोण - समचतुर्भुजं हलक्षेत्रतुल्यं सनसमकोण - समचतुर्भुजं चैतद्वयं मिलितमध्यक्षेत्रं भवि- ध्यति । कुतः । अहहजयोर्मिलितरेखा- त्वात् । पुनर्दल क्षेत्रतुल्यं खफक्षेत्रमङ्कसं- ज्ञाईं भविष्यति । तस्मात् गसरेखा सफरेखा चैते मध्यरेखे भविष्यतः । अन- योर्वर्गौ मिलितौ भविष्यतः । एतौ भुजौ अङ्कसंज्ञार्हक्षेत्रस्य भविष्यतः । फगरेखा यस्या वर्गो बझक्षेत्रतुल्योऽस्ति सा प्रथममध्यान्तररेखा भविष्यति ॥ तस्मात् झ 3 55 त श अथ ९० क्षेत्रम् || यस्य क्षेत्रस्यैकमुजोऽङ्कसंज्ञा भवति द्वितीयभुजस्तृती- यान्तररेखा भवति तदा यस्या रेखाया वर्ग एतत्क्षेत्रतुल्यो भवति सा द्वितीयमध्यान्तररेखा भवति । प्रकार: क्षेत्रं च पूर्ववत् | परं च हबक्षेत्रतुल्यं समसमकोणसम-