पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ ८७ क्षेत्रम् || तत्र षष्ठचन्तररेखोत्पादन मिष्टम् || प्रकार: पूर्ववत् । परं दहशहौ वर्गरा- अ+++44 यौ तथा कल्प्यौ यथैतयोर्योगो वर्ग- राशिर्न भवति । क्षेत्रं च पूर्ववोध्यम् || ब त अथ ८८ क्षेत्रम् || क्षेत्रस्यैको भुजोsसंज्ञाहों भवति द्वितीयो भुजः प्रथ- मान्तररेखा भवति । यस्या रेखाया वर्ग एतत्क्षेत्रतुल्यो भवति सान्तररेखा भविष्यति । यथा बझं क्षेत्रं कल्पितम् । अङ्कसंज्ञार्हरेखा अब कल्पिता । प्रथमान्त- ररेखा अझम् । अझरेखया झजरेखा तथा योज्या यथा प्रथमरूपा भवति । पुनर्बजक्षेत्रं संपूर्ण कार्यम् । पुनर्झजरेखा दचिह्नेऽर्द्धिता कार्या । पुनर् अजरेखाखण्डोपरि जदवर्गतुल्यो झजवर्गस्य चतुर्थीशस्तथा कार्यो यथा शेषखण्डक्षेत्रं वर्गतुल्यमवशिष्यते । तस्मात् अजरेखाया हचिह्ने विभागो भविष्य- ति | पुनर् अहरेखादजरेखानिष्पत्तिर्दजरेखा- जहरेखानिष्पत्तितुल्या भविष्यति । जहं च खण्डद्वयमध्ये लघुखण्डमस्ति । तस्मात् जहं जदालघु भविष्यति । जदं च अहालघु भविष्यति । पुनर्हचिहृदचिह्नाभ्यां हकरेखा- दतरेखे अबरेखासमानान्तरे कार्ये । पुनः समं समकोणसमचतुर्भुजं बहक्षेत्रतुल्यं कार्यम् । अस्य कर्णेन सनं समकोणसमच- तुर्भुजं हलक्षेत्रतुल्यं कार्यम् । पुनः खगक्षे- झ त हज अ स ख १ A. and J. have तृतीयान्तररेखोत्पादनप्रकार: २ दहदझौ A. ३ द्वौ विभागौ भविष्यतः A., J. मा० १५