पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ ८० क्षेत्रम् || अङ्कसंज्ञाहयुक्तमध्यरेखायामेव रेखा लगति याऽस्याः पूर्वस्वरूपं करोति । यद्येवं न स्यात् अबरेखायां बजरेखाबदरेखे संलगे । आभ्यां पूर्वस्वरूपं च कृतम् । अस्य विचारः क्षेत्रं च पूर्ववत् ज्ञेयम् || अथ ८१ क्षेत्रम् || मध्ययोगमध्यरेखायामध्येकैव रेखा लगति याऽस्या: पूर्व- स्वरूपं करोति । अवरेखायां बजबदरखे संलग्ने पूर्वस्वरूपं कुरुतः । विचारः क्षेत्रं च पूर्ववत् || ॥ अथ शेषक्षेत्राणां परिभाषोच्यते ॥ यद्यन्तररेखयैका रेखा मिलति पूर्वस्वरूपं च करोति तत्र संपूर्णरे- स्वावर्गो लग्झरेखावर्ग संपूर्णरेखामिलितान्यरेखावर्गयोगेन तुल्यो भवति । संपूर्णरेखाङ्कसंज्ञार्हरेखा चेद्भवति तदान्तररेखा प्रथमान्तररेखा भवति । यदि लमरेखाङ्कसंज्ञा भवति तदेयं द्वितीयान्तररेखा भविष्यति । यद्यनयोः काप्यङ्कसंज्ञाही न भवति तदेयं तृतीयान्तररेखा भविष्यति । पुनः संपूर्णरेखावर्गो लग्नरेखावर्गसंपूर्णरेखाभिन्नान्यरेखावर्गयोगेन तुल्यो भवति । संपूर्णरेखा चाकसंज्ञा भवति तदेयं चतुर्थ्यन्तररेखा स्यात् । यदि लमरेखाङ्कसंज्ञाहा॑ भवति तदा पञ्चम्यन्तररेखा भवति । यदि काव्यसंज्ञा न भवति तदा षष्ठ्यन्तररेखा भवति । ॥ इति परिभाषा || १. पूर्वोचलक्षणाकान्ता यदि लग्नरेखा &c. J., A,