पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पम् अजजवषातद्विगुणः अददबघातद्विगुण: अनयोरन्तरस्य द्वयो- रक्कसंज्ञाईयोरन्तररूपस्य समानमस्तीत्यशुद्धम् । इष्टं समीचीनम् । क्षेत्रं च पूर्ववत् ॥ अथ ७८ क्षेत्रम् || द्वितीयमध्यान्तररेखामेकैक रेखा मिलिष्यति याऽस्याः पूर्वस्वरूपं करिष्यति । यद्येवं न भवति तदा कल्पितम् अबरेखया बजबदरेखे मिलिते अस्याः पूर्वस्वरूपं कुरुतः । पुनईझरेखा अङ्कसं- ज्ञार्हा कल्पिता । अस्यां अजजवयोर्वर्गयोगो झकक्षेत्रं कार्यम् । अबवर्गतुल्यं झवक्षेत्रं च कार्यम् । शेषं तकक्षेत्रम् अजजबवातद्विगुण- दुल्यमवशिष्यते । द्वयोर्वर्गयोगो मध्यक्षेत्रतु- ल्योऽस्ति । द्विगुणघातब्ध प्रथममध्यक्षेत्राद्भिन्नः मध्यक्षेत्रतुल्योऽस्ति । तदा हककवरेखे मिथो भिन्ने भविष्यतः । अनयोर्वर्गावङ्कसंज्ञाह भविष्यतः । तस्मात् हवम् अन्तररेखा अविष्यति । द ब्र ज ल पुनरपि हझरेखोपरि अददबवर्गयोगझलक्षेत्रं कार्यम् । तस्मात् तलक्षेत्रम् अददबघातद्विगुणतुल्यं भविष्यति । हलरेखालवरेखावर्गौ केवलमङ्क संज्ञा भविष्यतः । हवमन्तररेखास्ति । तस्मात् हवरेखया बक- रेखायलरेखे सलभे । आभ्यामन्तररेखा प्रथमरूपा कृतेत्यशुद्धम् । अस्मदिष्टं समीचीनम् ॥ अथ ७९ क्षेत्रम् || न्यूनरेखायामध्येकैव रेखा लगति या तस्याः पूर्वस्वरूपं करोति । 1 यद्येवं न स्यात् अबरेखायां बजबदरेखे संलग्ने । पूर्वस्वरूपं कृतम् | विचारः क्षेत्रं च पूर्ववत् ॥