पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दाऽनयोरन्तरं करणीरूपं भविष्यति । अस्याभिधानं द्विती- यमध्यान्तररेखेति । ब द यथा अबम् अजात् पृथक् कृतं शेषं बजं करणीरूपं स्यात् । पुनर्द- हम् अङ्कसंज्ञार्हरेखा कल्पिता । अस्या उपरि अबअजवर्गयोगतुल्यं हृतक्षेत्रं कार्यम् । आ- बअजवातद्विगुणतुल्यं हवक्षेत्र कार्यम् । शेषं इतक्षेत्रं वजवर्गतुल्यमवशिष्यते । कुतः । अबअजयोभिन्नत्वात् । हतहवौ मध्यक्षेत्रे • भिन्ने भविष्यतः । उत्पन्नौ दतद्वभुजौ मिश्रो मिन्नो भविष्यतः । वर्गावकसंज्ञाह भविष्यतः । तस्मात् वलम् अन्तररेखा भविष्यति । झतं करणीरूपमस्ति । तस्मात् बजमपि करणीरूपं भविष्यति ॥ अथ ७३ क्षेत्रम् || तैयो रेखयोरन्तरं करणीरूपं भवति ययोभिन्नरेखयोग भिनौ स्तो वर्गयोगोऽङ्कसंज्ञाहों भवति द्विगुणघातश्च मध्य- क्षेत्रतुल्यो भवति । इयं न्यूनरेखोच्यते । यथा अबम् अजात्पृथक् कृतम् । शेषं बजे करणीरूपमवशिष्टम् । अस्य विचारः क्षेत्रं च पूर्ववत् बोध्यम् || अथ ७४ क्षेत्रम् || यो रेखयोग भिन्न स्तो वर्गयोगो मध्यक्षेत्रतुल्यो भवति द्विगुणघातश्चाज्ञा भवति । अनयोरन्तरं करणी- रूपं भवति । इयमङ्कसंज्ञार्हयोगमध्यरेखोच्यते | विचारः क्षेत्रं च पूर्ववत् || १ इयं द्वितीयमध्यान्तर रेखोच्यते A, J. २J. Omits कुतः ३ ययो रेखयोर्वग भित्रौस्तस्तयो रेखयोरन्तरं करणीरूपं भवति A, J. ४ A and J. have ययोः in the beginning and तयोः for अनयो..