पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तादृश्येव भविष्यति । दझतुल्यो यस्य वर्गः स प्रथममध्ययोगो वा द्वितीयमध्ययोगो वा भविष्यति । यथा अम् ॥ ओ अथ पञ्चषष्टितसं क्षेत्रम् ॥ ६५ ।। अधिकरेखातो या मिलिता रेखा भवति साप्यधिकरेखा । यथा अब अधिकरेखाया जचिहे विभागद्वयं कृतम् । दहं तस्या मिलिता कल्पिता | पुनर्दहरेखायां झचिह्ने तस्यामेव निष्पत्तौ विभागद्वयं कार्यम् । तत्र अजजबनिष्पत्तिर्दझ द • झहनिष्पतितुल्या भविष्यति । अज- जबयोर्वर्गौ भिन्नौ स्तः । तस्मात् दझझहयोरपि वर्गौ भिन्नौ भविष्यतः । अजजबयोर्वर्गयोर्निष्पत्तिर्दझझह वर्गनिष्पत्तितुल्यास्ति । अजजब- वर्गयोगनिष्पत्तिर्दझझहवर्गयोगनिष्पचिरस्ति । तस्मात् योगस्य योगेन तथास्ति यथैकस्य द्वितीयेन । एको द्वितीयेन मिलितोऽस्ति । योगो यो- गेन मिलितो भविष्यति । अजजनवर्गयोगोऽङ्कसंज्ञार्होऽस्ति । तस्मात् दझझहवर्गयोगोऽप्यङ्कसंज्ञार्हो भविष्यति । पुनरपि अजजबद्विगुणघातो मध्योऽस्ति | तस्मात् दझझहधातो द्विगुणस्तेन मिलितोऽपि मध्यो भविष्यति ।। + झ जं - ब पुनः प्रकारान्तरम् ॥ अधिका रेखा अः कल्पिता । बं मिलितरेखा कल्पिता । अनयोर्व- गौं जैदोपरि कार्यो । तस्मात् अवर्गात् द्वितीयो जहभुजोत्पन्नो भविष्यति । इयं चतुर्थी योगरे- खास्ति । जझं च तन्मिलितं भविष्यति । इदमपि तथैव भविष्यति । तस्मात् या रेखा दझवर्गतुल्या भवति साऽधिका भविष्यति || १ तस्माद् द्विगुणो दझझहघातस्तेन मिलितोऽपि &c. J. २ अम्-अधिका रेखा कल्पिता J. ३ अङ्कसंज्ञाजदोपरि &c. J.