सामग्री पर जाएँ

पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/११८

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति

१०२

अथ चतुःषष्टितमं क्षेत्रम् ॥ ६४ ॥


 मध्ययोगरेखाया या रखा मिलिता भवति सा तादृश्येव मध्ययोगरेखा भवति।

 यथा अबं प्रथममध्ययोगरेखा वा द्वितीयमध्ययोगरेखास्ति। अस्या चिह्ने द्वौ विभागौ कल्प्यौ। तन्मिलिता दहरेखा कल्पिता। पुनर् अबदहनिष्पत्तितुल्या अजदझनिष्पत्तिः कल्प्या। जबझहनिष्पत्तिः कल्प्या। प्रत्येकं अजजवे दझझहाभ्यां मिलिते भविष्यतः। तथैव मध्ये भविष्यतः। अजजबौ भिन्नौ स्तः। तस्मात् दझझहावपि भिन्नौ भविष्यतः। अजवर्गअजजबघातयो- र्निष्पत्तिः अजजबनिष्पत्तिरूपा इयं दझवर्गदझझह घातनिष्पत्तितुल्यदझझहनिष्पत्तितुल्यास्ति। पुनर् अजवर्गदझवर्गयोर्निष्पत्तिः अजजबघातदझझह घातनिष्पत्तितुल्यास्ति। द्वौ वर्गौ मिलितौ स्तः। तस्मात् घातावपि मिलितौ भविष्यतः। द्वौ वर्गावङ्कसंज्ञार्हौ वा मध्यौ भवतः। तदा घातावपि अङ्कसंज्ञार्हौ वा मध्यौ भवतः। अबयोर्मध्ये यादृशी मध्यरेखा भवति दहमपि सैव[] भविष्यति। क्षेत्रं च पूर्वोक्तवबोध्यम्॥

प्रकारान्तरम् ॥

 रेखा प्रथममध्ययोगरेखा वा द्वितीयमध्यरेखा कल्पिता। तन्मिलिता रेखा कल्पिता। जदरेखा अङ्कसंज्ञार्हा कल्पिता। अस्यां दहक्षेत्रम् वर्गतुल्यं कार्यम्। दझक्षेत्रं[] वर्गतुल्यं च कार्यम्। तस्मात् जहं द्वितीययोरेखा वा तृतीय योगरेखा भविष्यति। जझम् ए॒तन्मिलितं भविष्यति। तस्मात् जझमपि


  1. १ तथैव J.
  2. वर्गतुल्यं दझक्षेत्र कार्यम् J.