सामग्री पर जाएँ

पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/११७

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति

१०१

प्रकार: क्षेत्रं च पूर्वोक्तवबोध्यम् । परमत्र दववकौ भिन्नौ भविष्यतः। हकं मध्यं भविष्यति। लझं मध्यं भवति। हकात् भिन्नं च। तस्मात् दककझवर्गावङ्कसंज्ञार्हौ भविष्यतः। मिथो भिन्नौ भविष्यतः। दहादपि भिन्नौ भविष्यतः। दकवर्गः कझवर्गभिन्नरेखावर्गयोगतुल्यो भविष्यति। तस्मात् दझं षष्ठी योगरेखा भविष्यति। इदमिष्टम्॥

अथ त्रिषष्टितमं क्षेत्रम् ॥ ६३ ॥


 योगरेखया या रेखा मिलितास्ति[] सापि तादृश्येव योगरेखा भवति।

 यथा अबयोगरेखाया चिह्ने योज्यविभागद्वयं कल्पितम्। तन्मिलिता दहरेखा कल्पिता। पुनर् अबदहनिष्पत्तितुल्या अजदझनिष्पत्तिः कल्प्या।[] तदा जबझहौ शेषौ तस्यामेव निष्पत्तौ स्तः। प्रत्येकं अजजबौ दझझहाभ्यां मिलितौ स्तः। तथैवाङ्कसंज्ञार्हौ स्तः। अथवाऽनयोर्वर्गौ मिलताङ्कसंज्ञार्हौ स्तः। अजजबनिष्पत्ति र्दझझहनिष्पत्तितुल्यास्ति। अजजबौ भिन्नौ स्तः तस्मात् दझझहावपि भिन्नौ भविष्यतः। यदि अजवर्गो जबवर्गअजमिलितरेखावर्गयोगतुल्यो भवत्यथवा जबवर्गअजभिन्नरेखावर्गयोगतुल्यो भवति तदा दझवर्गो झहवर्गदझमिलितरेखावर्गयोगतुल्यो वा झहवर्गदझ भिन्नरेखावर्गयोगतुल्यो भविष्यति। तस्मात् अबं यादृशी योगरेखा भवति दहमपि तथैव भविष्यति॥


  1. १ मिलिता भवति J.
  2. २ कल्पिता A. J.