१००
अस्य प्रकारः क्षेत्रं च पूर्ववत् । परमत्र दववकौ भिन्नौ भविष्यतः। अजजनवर्गयोर्भिन्नत्वात्। हकम् अङ्कसंज्ञार्हमस्ति। कुतः। अजजवयोर्वर्गयोगस्याङ्कसंज्ञार्हत्वात्। लझं मध्यमस्ति। तस्मात् दककझयोर्वर्गावङ्कसंज्ञार्हौ भविष्यतः। दकम् अङ्कसंज्ञार्हमस्ति। अस्य वर्गः कझवर्गदकभिन्नरेखावर्गयोर्योगतुल्योऽस्ति। दववकयोर्भिन्नत्वात्। तस्माद्दझं चतुर्थी योगरेखा भविष्यति॥
अथैकषष्टितमं क्षेत्रम् ॥ ६१ ॥
अङ्कसंज्ञार्हरेखायामङ्कसंज्ञार्हरेखामध्ययोगवर्गतुल्यं[१] क्षेत्रं यदा भवति तदा द्वितीयो भुजः पञ्चमी योगरेखा भविष्यति।
प्रकारः क्षेत्रं च पूर्ववत्। परमत्र दववकौ भिन्नौ भविष्यतः। अजजबवर्गयोर्भिन्नत्वात्। हकं मध्यो भविष्यति। अजजबवर्गयोर्मध्यत्वात्। लझम् अङ्कसंज्ञार्हं भविष्यति। तस्मात् दककझयोर्वर्गावङ्कसंज्ञार्हौ भविष्यतः। कझम् अङ्कसंज्ञार्हमस्ति। दकवर्गः कझवर्गभिन्नरेखावर्गयोगतुल्योऽस्ति। दकवकयोर्भिन्नत्वात्॥ तस्मात् दझं पञ्चमी योगरेखा भविष्यति॥
अथ द्विषष्टितमं क्षेत्रम् ॥ ६२ ॥
अङ्कसंज्ञार्हरेखायां द्वयोर्मध्ययोर्योगवर्गतुल्यं क्षेत्रं चेत् तदा द्वितीयोत्पन्नभुजः षष्ठी योगरेखा भविष्यति।
- ↑ १ अङ्कसंज्ञार्हरेखामध्ययोगवर्गतुल्यं क्षेत्रमङ्कसंज्ञार्हरेखायां यदा भवति J.