सामग्री पर जाएँ

पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/११४

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति

९८

 अबयोगरेखाया चिह्ने द्वे खण्डे कल्पनीये।पुनर्दहअङ्कसंज्ञार्हरेखायां अबवर्गतुल्यं हझक्षेत्रं कल्प्यम्। तस्मात् दहरेखाया द्वितीयो भुजः प्रथमयोगरेखा भविष्यति। अजवर्गो हवक्षेत्रतुल्यो जबवर्गस्तकक्षेत्रतुल्यः कल्प्यः।[] शेषं लझम् अजजबद्विगुणघाततुल्यमवशिष्यते। कझं चिह्नोपरि अर्द्धं[] कार्यम्। पुनर्दहसमानान्तरा मनरेखा कार्या। तत्र अजजववर्गयोगोऽङ्कसंज्ञार्होऽस्ति। तस्मात् हकक्षेत्रमङ्कसंज्ञार्हं भविष्यति।[] दकम् अङ्कसंज्ञार्हमस्ति।[] दवं वकं मिलितं भविष्यति। अजजवघातो मध्योऽस्ति। तस्मात् लझं मध्यो भविष्यति। कझं केवलवर्गां- कसंज्ञार्हो भविष्यति। दहभिन्नो भविष्यति। अजजबवर्गयोगः अजजबद्विगुणघातादधिकोऽस्ति। तस्मात् दकं कझादधिकं भविष्यति। अजजबघातः अजजबवर्गयोर्मध्यनिष्पत्तिरस्ति। कनं दततकयोर्मध्यनिष्पत्तिर्भविष्यति। कमं दववकयोर्मध्यनिष्पत्तिर्भविष्यति।

 पुनर्दवकमनिष्पत्तिः कमवकनिष्पत्तितुल्यास्ति। पुनः कझवर्गचतुर्थांशरूपः कमवर्गो दके कार्य:। तदा दकं वचिह्ने मिलितविभागं भवति। तस्मात् दकवर्गः कझवर्गस्य मिलितान्यरेखावर्गस्य च योगेन तुल्यो भविष्यति। इदमिष्टम्।

अथाष्टपञ्चाशत्तमं क्षेत्रम् ॥ ५८ ॥


 अङ्कसंज्ञार्हरेखायां प्रथममध्ययोगरेखावर्गतुल्यं क्षेत्रं कार्यं तदा द्वितीयो भुजो द्वितीययोगरेखा भवति।


  1. १. कार्य: A.
  2. २. अर्धितं A.
  3. ३. अस्ति A.
  4. ४. संज्ञार्हं भवति J.