सामग्री पर जाएँ

पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१११

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति

९५

द्वितीययोगरेखा भवति यस्या रेखाया वर्ग एतत्क्षेत्रतुल्यो भवति सा प्रथममध्ययोगरेखा भविष्यति।

 यथा बजक्षेत्रम् अबम् अङ्कसंज्ञार्हो भुजः अजं द्वितीययोगरेखाभुजश्च कल्प्यः।

 उपरितनप्रकारवत्कार्यम्। परं च अवक्षेत्रवदक्षेत्रे मिथो मिलते मध्यक्षेत्रे भविष्यतः। अतमध्यक्षेत्रेण च मिलिते भविष्यतः। दककजौ अङ्कसंज्ञार्हक्षेत्रे भविष्यतः। तस्मात् सगमनौ मिलितमध्यक्षेत्रे भविष्यतः। नगनखक्षेत्रे अङ्कसंज्ञार्हे भविष्यतः। तस्मात् सफफगौ केवलमध्यमिलितवर्गौ अङ्कसंज्ञार्हनगक्षेत्रस्य भुजौ भविष्यतः। तस्मात् सगरेखा प्रथममध्ययोगरेखा भविष्यति ॥

अथ त्रिपञ्चाशत्तमं क्षेत्रम् ॥ ५३ ॥


 एकक्षेत्रस्यैको भुजोऽङ्कसंज्ञार्हरेखा द्वितीयभुजश्च तृतीययोगरेखा[] भवति तदा यस्या रेखाया वर्ग एतत्क्षेत्रतुल्यो भवति सा द्वितीयमध्ययोगरेखा भविष्यति।

 तत्र[] क्षेत्रं द्वौ भुजौ चोपरितनोक्तवत्कल्प्यं तदुक्तवत्। कार्यं च। परं च अववद्क्षेत्रे मध्यमिलिते भविष्यतः। दककजौ च मध्यौ भविष्यतः। अतं च तजाद्भिन्नं भ-


  1. १. भविष्यति J.
  2. २. तत् क्षेत्रं J.