९४
अदस्यैकखण्डोपरि तथा कार्यो यथा शेषखण्डक्षेत्र वर्गतुल्यमवशिष्यते। तस्मात् अदरेखाया झचिचह्नोपरि खण्डद्वयं भविष्यति। अझझदौ मिलितौ भविष्यतः।पुनर्झवदतहक-रेखा अबरेखायाः समानान्तराः कार्याः। पुनर् अवक्षेत्रतुल्यं सनक्षेत्रं समकोणसमचतुर्भुजं कार्यम्। वदक्षेत्रतुल्यं मनं समकोणसमचतुर्भुजं क्षेत्रं कार्यम्। गखक्षेत्रं समकोणसमचतुर्भुजं संपूर्णं कार्यम्। सनसमकोणसमचतुर्भुजक्षेत्रस्य निष्पत्तिर्नगक्षेत्रेण [१] सफफगनिष्पत्तिरूपा फननछनिष्पत्तिरूपनगनमक्षेत्र निष्पत्तितुल्यास्ति। तदा नगक्षेत्रं सनक्षेत्रनमक्षेत्रयोर्मध्ये [२] एकनिष्पत्तौ पतिष्यति। तदा अववदयोर्मध्येऽप्येकनिष्पत्तौ पतिष्यति। तहक्षेत्रं द्वयोर्मध्ये [३] एकनिष्पत्तावासीत्। कुतः। अझदहनिष्पत्तिर्दहझद-निष्पत्तितुल्यास्ति। तस्मात् नगतहौ समानौ भविष्यतः। तस्मात् वजं गखतुल्यं भविष्यति। तस्मादस्य भुजो योगरेखा भविष्यति। कुतः । अझझदौ अदेन मिलितावङ्क संज्ञार्हो स्तः। तस्मात् अववदौ सननमतुल्यावङ्कसंज्ञार्हौ भविष्यतः। तस्मात् सफफगवर्गावङ्कसंज्ञार्हौ भविष्यतः। पुनर् अववदौ अङ्कसंज्ञार्हौ। तहहलमध्यक्षेत्राभ्यां भिन्नौ स्तः। तस्मात् सननगौ भिन्नौ भविष्यतः। तस्मात्[४] सफफगौ भिन्नौ भविष्यतः। तस्मात् बजतुल्यो यस्या रेखाया वर्गः सा सगरेखा योगरेखा भविष्यति॥
अथ द्विपञ्चाशत्तमं क्षेत्रम् ॥ ५२ ॥
यस्य क्षेत्रस्यैको भुजोऽङ्कसंज्ञार्हो भवति द्वितीयो भुजो