९३
राशी तथा कल्प्यौ यथैतयोर्योगो वर्गराशिर्न भवति। तस्मात् बजवर्गो जववर्गवरेखाभिन्नतवर्गयोर्योगतुल्योऽस्ति। कुतः। यतो वजवर्गतवर्गौ दहदझयोर्निष्पत्तौ स्तः॥
अथैकोनपञ्चाशत्तमं क्षेत्रम् ॥ ४९ ॥
तत्र पञ्चमयोगरेखोत्पादनमिष्टमस्ति।
तत्र द्वितीययोगरेखोक्तप्रकारोऽत्र कार्यः। परं च दहझहराशी चतुर्थयोगरेखोक्तवत्कार्यौ।
अथ पञ्चाशत्तमं क्षेत्रम् ॥ ५० ॥
तत्र षष्ठयोगरेखोत्पादनमिष्टम्।
तत्र द्वितीयरेखोक्तवत्प्रकारः कार्य:। द्वावङ्कराशीचतुर्थरेखोक्तवत्कार्यौ। इदमेवास्माकमिष्टम्॥
अथैकपञ्चाशत्तमं क्षेत्रम् ॥ ५१ ॥
तत्रैकक्षेत्रस्यैको भुजोऽङ्गसंज्ञार्हो भवति द्वितीयभुजः प्रथमयोगरेखा भवति तत्र यस्या रेखाया वर्ग एतत्क्षेत्रफलतुल्यो भवति सा योगरेखा भवति।
यथा बजक्षेत्रम्। एक अङ्कसंज्ञार्हः अबभुजः । द्वितीयः प्रथमयोगरेखा अजभुजः। अजय दचिह्ने द्वौ विभागौ कल्पनीयौ यथा अदं महत्खण्डं दजं[१] न्यूनखण्डं च कल्पितं भवेत्।
पुनर्दजं हचिह्नेऽर्द्धितं कार्यम्। पुनर्दहवर्गो दजवर्गचतुर्थांशतुल्यः
- ↑ १. दजं च न्यूनखण्डं J.