पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८९ अथ चत्वारिंशत्तमं क्षेत्रम् ॥ ४० ॥ प्रथममध्ययोगरेखाया अपि योज्यखण्डे एकचिहे अवतो नान्यत्र | यद्यन्यत्र भवतस्तदा कल्पितं दचिह्ने भवतः । तत्र अबबजयो- वर्गयोगस्य अददजयोरपि वर्गयोग- स्यान्तरं द्वयोर्मध्यमयोरन्तररूपं द्वयोः संज्ञाईयोरन्तररूपस्य अबबजद्विगुणघात अददजघातयोरन्तरस्य तुल्य- मस्ति । इदमशुद्धम् | अस्मदिष्टं समीचीनम् || अथैकचत्वारिंशत्तमं क्षेत्रम् ॥ ४१ ॥ द्वितीयमध्ययोगरेखाया योज्यखण्डे एकचिहे भवतः । यद्यन्यत्र स्यात्तदा दचिह्नं कल्पितम् । तत्र हझरेखाङ्कसंज्ञा कल्पिता । अस्या उपरि अबबजयोर्वर्ग- योगतुल्यं झवक्षेत्रं कार्यम् । अनयोर्द्विगुण- घाततुल्यं कृतं क्षेत्रं कार्यम् । तस्मात् हक- रेखाया वचिह्नोपरि द्वौ विभागौ स्तः । तस्मादियं योगरेखा भविष्यति । पुन झोपरि अददजवर्गयोगतुल्यं झल क्षेत्रं कार्यम् । तत्र मकक्षेत्रं द्वयोर्घातयो- द्विगुणतुल्यं भविष्यति । तस्मात् हकरेखाया लचिह्ने विभागद्वयं जातम् । इयं योगरेखा भविष्यति । इदमशुद्धम् । अस्मदिष्टं समीचीनम् || भा० १२ द व अथ द्विचत्वारिंशत्तमं क्षेत्रम् || ४२ || अधिकरेखाया अध्येकचिहे एव खण्डद्वयं भविष्यति . नान्यत्र । यद्यन्यत्र भवति तदा दचिह्नं कल्पि- अ तम् । पूर्वोक्तप्रकारेणैवात्रानुपपत्तिज्ञेया || ज