पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१०६

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति

९०

अथ त्रिचत्वारिंशत्तमं क्षेत्रम् ॥ ४३ ॥

अङ्कसंज्ञाहरेखावर्गमध्यरेखावर्गयोगतुल्यो यत्या रेखाया वर्गो भवति तस्या अपि योज्यखण्डे एकचिहे भवतः । यद्यन्यत्र भवतस्तदा दचिहं कल्पि- तम् । पूर्वोक्तप्रकारेणात्राप्यनुपपत्तिर्ज्ञेया || अ यदि भवतस्तदा दचिहं कल्पितम् । पुनः पूर्वोक्तप्रकारेणात्राप्यनुपपत्तिज्ञेया || द ब

अथ चतुश्चत्वारिंशत्तमं क्षेत्रम् ॥ ४४ ॥

द्वयोर्मध्यरेखयोर्वर्गयोगतुल्यो यस्या रेखाया वर्गो भवति एकचिहे एव भविष्यतो तस्या रेखाया अपि योज्यखण्डे नान्यत्र । अ - ज ++

अथ शेषक्षेत्राणां परिभाषा प्रथमं लिख्यते ॥

योगरेखाया महत्खण्डवर्गो लघुखण्डवर्गस्य बृहद्रेखामिलितान्यरेखावर्गस्य च योगेन तुल्यो भवति पुनर्महत्खण्डं चेदिष्टसंज्ञार्हरेखामिलितं भवति तदा सा प्रथमयोगरखोच्यते ।

यदि तत्र लघुखण्डरेखावर्ग इष्टसंज्ञाईरेखामिलितो भवति तदा सा द्वितीययोगरेखाभिधा भवति ! यदि खण्डद्वयस्य वर्गों केवलाइसंज्ञाह भवतस्तदा तृतीययोगरेखा- संज्ञका भवति । यदि महत्खण्डवर्गो लघुखण्डवर्गस्य महत्खण्डभित्रान्यरेखावर्गस्य च योगेन तुल्यो भवति पुनर्महत्खण्डं चेदङ्कसंज्ञाह स्यातदेयं चतुर्थी योगसंज्ञा रेखा भवति । यदि च लघुखण्डमङ्कसंज्ञार्है भवति तदा पञ्चमी योगसंज्ञा रेखा भवति ।


१. अङ्कसंज्ञाईमध्यरेखावर्गयोगतुल्यो J.