८८
अथ सप्तत्रिंशत्तमं[१] क्षेत्रम् ॥ ३७ ॥
ययो रेखयोर्वर्गौ भिन्नौ भवतो वर्गयोगकश्च मध्यक्षेत्रं भवति द्विगुणघातोऽङ्कसंज्ञार्हों भवति तद्रेखाद्वययोगतुल्या या रेखा भवति सा करणीगता भविष्यति। अस्या वर्गोङ्कसंज्ञार्हरेखामध्यरेखयोर्वर्गयोगतुल्यो- ऽस्ति।
यथा अबबजयोगोत्पन्ना अजरेखास्ति। अस्याः क्षेत्रं विचारश्च पूर्ववत्[२] ज्ञेयम्।
अथष्टत्रिंशत्तमं[३] क्षेत्रम् ॥ ३८ ॥
ययोर्वर्गौ भिन्नौ भवतो वर्गयोगश्च मध्यक्षेत्रं भवति तद्विगुणितघातो मध्यक्षेत्रं भवत्यनयोर्वर्गयोगमध्यक्षेत्रं द्विगुणघातमध्य- क्षेत्राद्भिन्नं भवति तदा तयो रेखयोर्योगतुल्या या रेखा भवति सा करणीरूपा[४] भवति। अस्या वर्गो मध्यरेखाद्वयवर्गयोगतुल्यो भवति।
यथा अजरेखा अबबजयोगोत्पन्नास्ति। अस्या विचारः क्षेत्रं च पूर्वोक्तवत् ज्ञेयम्॥
अथैकोनचत्वारिंशत्तमं क्षेत्रम् ॥ ३९ ॥
योगरेखाया योज्यखण्डे एकचिह्ने भवतः।[५]
यद्यन्यस्मिंश्चिह्ने[६] भवतस्तदा तचिह्नं दं कल्पितम्। अबबजवर्गयोगअददजवर्गयोगान्तरमिदमङ्कसंज्ञार्हरूपम्।[७] द्विगुणअबबजघातद्विगुण- अददजघातयोरन्तरं द्वयोर्मध्ययोरन्तर- रूपमस्ति। तस्मादन्तरमङ्कसंज्ञार्हं करणीरूपं च भविष्यति। इदमशुद्धम्। इष्टं समीचीनम्॥