सामग्री पर जाएँ

पृष्ठम्:रेखागणितम् (द्वितीयः भागः).pdf/१००

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति

८४

 अस्य प्रकारस्त्वनन्तरोक्तक्षेत्रवत् ज्ञेयः। विशेषस्तु वर्गोवर्गस्य रेखाभिन्नान्यरेखावर्गस्य च योगेन तुल्योऽस्ति॥

अथ त्रिंशत्तमं क्षेत्रम् ॥ ३० ॥


 तादृशरेखाद्वयोत्पादनमिष्टमस्ति[] ययोरेखयोर्वर्गौ मिथो भिन्नौ स्तो वर्गयोगश्चाङ्कथासंज्ञार्हो भवति रेखयोर्घातो द्विगुणो मध्यक्षेत्रं भवति।

 पुनर् अबबजौ द्वे रेखे कल्पिते। तत्र अबवर्गों बजवर्गस्य अबरेखाभिन्नान्यरेखावर्गस्य च योगेन तुल्यो भवति। अबरेखोपरि अझबवृत्तार्द्धं कार्यम्। बजवर्गस्य चतुर्थांशतुल्यं क्षेत्रम् अबरेखाखण्डोपरि तथा कार्यं[] शेषखण्डस्य क्षेत्रं यथा[] वर्गरूपं भवेत्।[] अस्या अबरेखाया[] चिह्नोपरि विभागद्वयं भविष्यति।[]

 पुनर्हचिह्नात् हझलम्बो निष्कास्यः। पुनर् अझझबरेखे संयोज्ये। एते इष्टरेखे भविष्यतः। कुतः । अझझबयोर्निष्पत्तिः अहहझयोर्निष्पत्तितुल्यास्ति। हझहबयोरपि निष्पत्तितुल्यास्ति। तस्मात् अझझबवर्गनिष्पत्तिः अहहबभिन्नरेखयोर्निष्पत्तेस्तुल्या- स्तीति। तस्मात् अझझबयोर्वर्गौ भिन्नौ भविष्यतः। अनयोर्वर्गौ अबअङ्कसंज्ञार्हवर्गेण समानौ स्तः। तस्मादनयोर्वर्गयोगोऽप्यङ्कसंज्ञार्हो भविष्यति। अहहबयोर्घातो हझवर्गतुल्योऽस्ति। बदवर्गस्य तुल्य आसीत्। बदवर्गश्च बजवर्गचतुर्थांशोऽस्ति। तस्मात् हझवर्गो बदवर्गसमानो भविष्यति। पुनर् अबअझ-योर्निष्पत्तिर्झबझहयोर्निष्पत्तितुल्यास्ति।


  1. १ J. has तत्र in the beginning.
  2. २ A and J. have यथा after कार्यं.
  3. ३ Omitted in A and J. in which it is used before.
  4. ४ भवति A, J.
  5. ५ रेखया J.
  6. ६ करिष्यति D.