पृष्ठम्:रुद्राष्टाध्यायी (IA in.ernet.dli.2015.345690).pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥ अथ पूजाप्रयोगः | आचम्य प्राणानायम्य नमस्कारं कुर्यात् । श्रीमन्महागणाधिपतये नमः । 'इष्टदेवताभ्यो नमः । श्रीमदुमाहेश्वराभ्यां नमः | कुलदेवताभ्यो नमः | सर्वेभ्यो देवेभ्यो नमः ॥ सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ॥ लम्बोदरश्च विकटो विघ्ननाशो विनायकः ॥ १ ॥ धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः || द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥ २ ॥ विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ॥ संग्रामे सङ्घटे चैव विघ्नस्तस्य न जायते ॥ ३ ॥ शुक्लाम्बरधरं देवं शुक्रवर्णं चतुर्भुजम् ॥ प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ ४ ॥ अभीप्सितार्थसिद्धयर्थं पूजितो यः सुरासुरैः ॥ सर्वविहरस्तस्मै गणाधिपतये नमः ॥ ५ ॥ सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोस्तु ते ॥ ६ ॥ सर्वदा सर्वकार्येषु नास्ति तेषाममंगलम् ।। येषां हृदिस्थो भगवान्मंगलायतनं हरिः ॥ ७ ॥ लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ॥ येपामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥ ८ ॥ सर्वेष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वराः || देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥ ९ ॥ विनायकं गुरुं मानुं ब्रह्मविष्णुमहेश्वरान् || सरस्वती मणौम्यादी सर्वकार्यार्थसिद्धये ॥ १० ॥ अब सङ्कल्पः । ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया भवर्तमानस्यायन - मणो द्वितीये परार्धे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे कतिप्रथमचरणे जम्बूद्वीपे भारतवर्ष आर्यावर्तान्तर्गतमह्मावर्तेकदेशे यौद्धावसारे अमुक- नामसंवत्सरे अमुकायने अमुक्त अमुकमासे व्यमुकपक्षे अमुकदासरे अमु कतियो अमुकनक्षत्रे अमुक राशिस्थिते चन्द्रे यमुकराशिस्थिते आस्फरे."- 1.