१२ २८ ॥ धूपायति तेजसा विपक्षं गोपायति चाशयानशेषान् । यातः प्रमदासखः स राजा शून्यीकृत्य पुरं विहन्तमेनाम् ॥ २९ ॥ चिच्छायति को न शून्यमेतत्सिहेनैवं वनं पुरं नृपेण । गोपायितसारलभाण्डं विपणायन्ति वणिग्जनाश्च यत्र ॥ ३० ॥ ऋतेरीयङ् ॥ २९ ॥ कमेणिङ् ॥ ३० ॥ किं त्वेतमृतीयसे प्रदेशं यत्रासौ नृपतिर्गतो रणाय । शिशुवृद्धजनावृतामनाथां किमिमां कामयसे पुरीं विहन्तुम् ॥ ३१ ॥ अायाद्य आर्धधातुके वा ॥ ३१ ॥ सनाद्यन्ता धा तचः ॥ ३२ ॥ स्यतासी ललटोः ॥ ३३ ॥ गोपायितास्यामैपि योजितोऽसौ गोप्ताथ वाहं तमरिं विधूय । किमेनया याहि स यत्र राजा शैकेऽपि भत्रेऽतिवचो बभाषे ॥ ३२ ॥ जित्वार्जुनं कामयिताहमुव्य वध्वा इवैकः कमिता यथासैौ । निर्जित्य मां संयति तुल्यकालं दिवाकरौ द्वौ न दिवं भजेते ॥ ३३ ॥ ऋतीयितुं तन्निधनं क्षमोऽहं सर्वार्तितुं मां समरे नृवीरः । युधं करिष्यामि तमद्य दृष्टा कर्ता स वाश्वो बहुभिः किमुतैः ॥ ३४ ॥ आंप्रकरणमितः ।) कास्प्रत्ययादाममन्त्रे लिटि ॥ ३५ ॥ दुष्प्रेक्षाकारः सत्प्रभो भानुमान्वा कासांचक्रेऽसौ प्रस्थितो राक्षसेन्द्रः । नोनुद्यांचक्रे चण्डवेगेव वात्या सेना गच्छन्ती सर्वतस्तस्य मेघान् ॥३१॥ इजादेश्च गुरुमतोऽन्नृच्छः ॥ ३६ ॥ इक्षांचक्रे हस्तिदेहप्रमाणा रक्षसेना दूरतः काधिदद्रीन् । उहांचक्रे चापरत्रेति याप्ती दृष्ट्र पृथ्व्यां स्पन्धदी()किं समुद्रः ॥ ३६ ॥ दयायासश्च ॥ ॥ उषविद्जागृभ्योऽन्यतर | ३७ स्याम् ॥ ३८ ॥ १. ‘नेव' इति भवेतू, २. ‘मयि' ख. ३. ‘शुकोऽपि’ इति भवेत्, ४. ‘स पा .' र्तितुं' इति भवेत. [३ अ० १ पा०८ स०] रावणार्जुनीयम् ५३ दायांचक्रे न सर्पन्ती शैलदुमाणां पताकिनी पलायांचक्रिरे विहङ्गा दुमभङ्गसंजातभीतयः ॥ ३७ ॥ आसांचक्रे चन्द्रशीतः पतङ्गो नोषांचकुस्तत्करा रावणीयम् । अत्यासन्ने सैन्यलोकं व्रजन्तं ये दूरस्थानूपुरन्यान्नरेन्द्रान् ॥ ३८ ॥ चितं यदीयं समराय यातुर्विवेद नात्मीयजनोऽपि कश्चित् । दूरथितस्तस्य दुरीहितस्य विदांवभूवुस्त्रिदशाः कथं तु ॥ ३९ ब्रजतः पथि जागरांचकार स्वयमेवात्मबलस्य नैतेन्द्रः । विनिपातभयात्ततः सशङ्का प्रजजागार दिवानिशं त्रिलोकी ॥ ४० ॥ भीहीभृहुवां इलुवच ॥ ३९ ॥ कृञ्चानुप्रयुज्यते लिटेि ॥ ४० जनता विभयांवभूव यस्या न विभायापरतश्च वाहिनी या । प्रययौ नभसा तमालनीलावनराजीवविमुक्तसिंहनादा ॥ ४१ ॥ जुहवुनै जना भयेन यस्या नभसा बद्धरुषः समापतन्त्याः । शतशो जुहृवांचकार यैका रणयज्ञे जनतापशूनजसम् ॥ ४२ ॥ परितो विभरांवभूव हंसाञ्जलवेगं च बभार यातिसत्त्वा । | सूमुलसन्ता ॥ ४३ ॥ पृतना गगने जनितावर्तशतासुरापगेव विदांकुर्वन्त्वित्यन्यतरस्याम् ॥ ४१ ॥ पथि विदांकुर्वन्तु गत्वाशु कायं दशास्यो गमिष्यतीति । व्यवसितं विदन्तु बत किं वा देवाञ्जगादेति वासवः ॥ ४४ ॥ (सिजधिकारः ) च्लि लुङि ॥ ४३ ॥ च्लेः सिच ॥ ४४ ॥ शल इगुप धादनिटः क्स ॥ ४५ ।। पताकिनी प्रावृडिवावृतार्का गच्छन्त्योऽकार्षीजगदन्धकारम् । | समापतन्त्या मदवारिवृष्टया धरामैसिक्षद्भजवृन्दलीला ॥ ॥ ४९. श्लिष आलिङ्गने ॥ ४६ ॥ • १. ‘क्र' क. २. ‘क्र' क. ३. ‘ममिक्षद्र' इति भवेत्.
पृष्ठम्:रावणार्जुनीयम्.djvu/३०
दिखावट