१० काव्यमाला । तपस्यतां रक्षणमादधानैस्तेजोभिरीशस्य परिस्फुरद्भिः । ऊष्मायमाणा इव यठप्रतोली शक्तो न कश्चिद्विषतां प्रवेष्टुम् ॥१०॥ अङ्गारपूर्णा इव लोहिताजैधूमैरिवोपर्यलिभिभ्रमद्भि बाष्पायमाणा इव वैरिवगैर्न लक्षिता यत्परिखा कदाचित् ॥ ११॥ शब्दवैरकलहाभ्रकण्वमेधेभ्यः करणे ॥ १७ ॥ मेघायमानैः सुरधूपधूमैः शब्दायमानैः पटहैश्च मन्दैः । विडम्बयन्तीव बभौ सगजै या प्रावृषं नर्तितबहिँवृन्दाम् ॥ १२ ॥ वातायनोत्थागुरुधूमचकैरभ्रायमाणैः सुरभीकृताशा वैरायमाणैर्बलिनां भटैर्या युक्ता तथाजौ कलहायमाना ॥ १३ ॥ सुखादिभ्यः कर्तृवेदनायाम् ॥ १८ ॥ नमोवरिवञ्चि ऋङः क्यच ॥ १९ ॥ पुच्छभाण्डचीवराणिङ् ॥ २० ॥ सुखायमानेन जनेन युक्ता दुःखायमानस्य न यत्र ढौकः । चित्रीयते या स्म गुणैरुदारैरुपागता गाममरावतीव पुरा नमस्यत्यमरानजर्स गुरुद्विजातीन्वरिवस्यति । स्म । भिक्षु च संचीवरयानुषतं प्राचीजनो यत्र समाधियुक्तः ॥ १६ ॥ वेलां पयोधेरिव कीटर्मुक्ता प्रवालशङ्गामलहेमपुञ्जान् । प्रविश्य ‘बेथी वणिजां समूहाः संभाण्डयन्ते स्म चिराय तस्याम् ११ उद्भतबालव्यजनाग्रभाजा प्रातध्वजिन्यैव महीपतीनाम् गवां समित्या परिनिष्पतन्त्या रेजे सदोस्पुच्छयमानया , या ॥ १७ ॥ 'तं वीक्ष्य संजातरुषा बभाषे दशाननेनानुतदृष्टिनेति । शिरांसि निक्षिप्य पुरोऽहमस्याः सालं किमेतं बत खण्डयानि ॥१८॥ | मुण्डमिश्रश्लक्ष्णलवणव्रतवस्रहलकलकृततृस्तेभ्यो ििणच ॥ २१ उत्स्तम्भयानि रजसास्य दिशां मुखानि क्षिप्वाम्बुधौ लवणयानि पुरं नु सर्वम् । . संचीवरणानुषक्तम्’ इति पाठो भवेत्, णिङन्ताद्युचो नित्यत्वात्, २. ‘मुः चक्तप्रवा' इति भवेत्. ३. ‘वीथीर्वणि’ इति भवेत्, ४. ‘ताम्' इति भवेत्, [३ अ० १ पा०८ स०] रावणार्जुनीयम् अन्नानि येऽपि व्रतयन्ति शान्तास्तानप्यतोऽहं गमयानि नासम्। --तथा करोम्येष जनं समग्रं संवखयत्यत्र यथा न कश्चित् ॥ २० ॥ धातोरेकाचो हलादेः क्रियासमभिहारे यङ् ॥ २२॥ नित्यं कौटिल्ये गतौ ॥ २३ ॥ नानन्द्यते योऽत्र भटाभिमानी चङ्क्रम्यते यो विपदे जनानाम् । प्रब्रूहि तं मद्वचनेन गत्वा शुकार्जुनं गर्जितमात्रसारम् लुपसद्चरजपजभदहदशगृभ्यो भावगहयाम् ॥२४॥ लोलुप्यसे लोक“नान्यपाता सासद्यसे यत्पुंरि मय्युपेते । आटोपमात्राहितलोकभीतिर्दन्दश्यसे सर्प इवावदंष्टः ॥ २२ ॥ चर्यसे भीरुरे त्वर्मादौ दंदह्यसे त्रासभयेन लोकम् । बिभेषि चेत्तिष्ठ ततोऽस्तराज्यो जञ्जप्यमानो मुनिवषधारी ॥ २३ ॥ सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचर्मव र्णचूर्णचुरादिभ्यो णिच ॥ २५ ॥ हेतुमति च ॥ २६ ॥ सत्पापयामीह शुक प्रयाहि विपाशयाशागुरुपादतो माम् । निरुपयैनं पुरि यत्र भूपं नार्यः सदोचैरुपवीणयन्ति ॥ २४ ॥ अनुकूलय जल्पितं समादस्तमुपश्लोकय संयुगाय गत्वा । अभिषेणयति कुधा यथा मां स विदित्वा प्रतियन्तमन्तमाशु ॥ २१ . ॥ | । मयि वर्मयति प्रयाहि शीघ्र बहुशो वर्णय मां द्विषे युयुत्सुम् | सहसैव ससैनिकै रजोभिस्तमिलाजैरवचूर्णयामि तावत् ॥ २६ ॥ कण्ङ्कादिभ्यो यक ॥ २७ ॥ मम चोरयतीह यः प्रभावं रिपुमानायथै तं कथंचिदाजिम् विदधामि तथा शरौघभित्रं युधि कण्डूयति येन मेदिनीं सः ॥ २७ ॥ प्रहितः प्रभुना(णा) शुकोऽवतीर्य त्वरयाकाशतलात्पुरं प्रविश्य । अवगम्य तदाश्रयां च वार्तामिति सम्यङ्गिजगाद राक्षसेन्द्रम् ॥ २८ ॥ १. ‘युधि' क. २. ‘माजौ' ख. ३. ‘ततं’ इति भवेत.
पृष्ठम्:रावणार्जुनीयम्.djvu/२९
दिखावट