अभ्यर्णसेना भटसिंहनादात्रासाकुला सिद्धवधूर्विधूय । भूभृलता पुष्पफलाप्रचायं पतिं समाश्लिक्षदुपान्तिकस्थम् ॥ ४६ न दृशः ४७ ॥ णिश्रिदुस्त्रुभ्यः कर्तरि ॥ चङ्कः ॥ ॥ ४८ यः सैन्यं सततमनीनयन्महाजिं यं लक्ष्मीर्विभयमशिश्रियत्सुराणाम् । यस्माच सोऽद्राक्षीदशवदनः क्रमेण विन्ध्यम्॥४७ त्वरितमदुद्रुवद्विपक्षः विभाषा धेट्रइव्योः ॥ ४९ ॥ असुवद्वारियतोमहाद्वेतचादधद्यस्य कुलं । गजानाम् अधादुदन्यं निबद्दो जनानामधासिषुर्यत्र मृगाः सतृष्णाः ॥ ४८ ॥ खादूनदत्पादपछवाग्रानशिवियद्यत्र मतंगजौधः। दूर्वोपयोगेन सदैव यूथं यत्रावयीद्वातमजं मृगाणाम् ॥ ४९ ॥ (अडधिकारः ) अस्यतिवक्तिख्यातिभ्योऽडू ॥ ५२ ॥ यो दृष्टमात्रो दुरितं निरास्थजनाय चाख्यन्नपरं परसै । पुष्पाभिलीनैस्तरवः समेता यस्मिन्नवोचन्निव भृङ्गनादैः ॥ १० ॥ लिपिसिचिह्नश्च ॥ ६३ दिशोऽलिपत्कुञ्जरदानगन्धैर्यश्चासिचन्निर्शरशीकरौधैः । विश्रान्तिहेतोर्विहगप्रणादैरधन्यमाडन्निव यत्र वृक्षाः ॥ ११ ॥ आत्मनेपदेष्वन्यतरस्याम् ॥ ॥ ५४ मदेन तुङ्गान्यलिपन्त नागाः कपोलकाषेण तटानि यानि । तैरेव योऽलिप्त समाश्रितानि द्विरेफतृन्दानि मत्तः ॥ ५२ ॥ करराव गम्भीरनादाः शिखराग्रलीना यमम्बुपातैरसिचन्त मेघाः । वाताहतैर्निईरशीकरैर्यो मेधायमानो जनतामसिक्त ॥ ॥ १३ आह्मास्त वा दुन्दुभिभीमनादैः सेनागजौघो द्विरदान्यदीयान् तदप्यसौ ज्ञातनिजाभशक्तिः प्रतिखनेनाशु समाहृतेव ॥ १४ ॥ १. ‘खादून्नदन्या' इति भवेतू. [३ अ० १ पा० ८ स०] ५५ पुषाद्युतायूदितः परमैपदेषु ॥ ५५ ॥ सतिशास्त्य र्तिभ्यश्च ॥ ५६ उपागमन्यं द्विरदाः सयूथाः सुतानिवैतानपुषत्सदा यः । आलम्बिता येन सपुष्पभूषा वनावली व्यद्युतदङ्गनेव ॥ १५ ॥ यदाश्रमक्ष्मामसरन्मुनीन्द्रास्तत्राशिषञ्छिष्यगणान्समेतान् व्याप्रादयोऽपि च्युतदुष्टभावा यथा समीपं न कदाचिदारन् ॥ ११ ॥ वा ॥ ५७ श्रमातविद्याधरयुग्मसेव्यैर्यो मेघमार्ग शिखरैररौत्सीत् । सत्त्वोपकाराय पतङ्गपातं बनेन यश्चारुधदुन्नतेन १९७ जूस्तम्भुरुमुचुम्लुचुयुचुग्लुचुग्लुशुचिभ्यश्च ॥ ५८ ॥ कालेन यातेन महीयसापि स्थिताकृतियों न महानजारीत् । नित्यसबढ़ारिलवाईभूमौ यत्राजरन्न दुमगुल्मवलयः ॥ १८ ॥ रुन्धानः शिखरशतैर्नभोवसित्वादस्ताम्भीन्मुनिवचनेन यः खकायम् । यं पुण्यं सपदि समेत्य सिद्धिलाभान्निःशेषं भवरयमस्तभन्मनुष्यः ॥ १९ ॥ अम्लुचन्मदं दशग्रीवो यं रम्यसार्नु विलोकयन् कुञ्जरब्रजस्तथा न्यम्लोचीद्यत्काननान्यानुपाहतः ॥ ६० ॥ वराहदंष्ट्रोलिखितं समन्ताद्यत्राश्वदङ्गं महिषत्रजस्य । मृगेन्द्रदंष्ट्रानखराहतानि सदा शिरांस्यश्चयिषुद्विपानाम् ॥ ११ ॥ चिण्ते पदः ॥ ६० ॥ दीपजनबुधपूरितायेिप्यायि भ्योऽन्यतरस्याम् ॥ ६१ ॥ तपस्यतां यत्र समाधिभाजां ज्ञानं मुनीनामुदपादि सद्य अदीपि दोषापगमेऽपि कायो भाखानदीपिष्ट यथोदयाद्रौ ॥ ६२ ॥ संफुलनानादुमरम्यसानुलोकस्य रम्योऽजनि यो हिताय । निर्वाणहेतोस्तपसे मुनीनां कान्तासखानां च स भाजनिष्ट ॥ ६३ ॥ ब्रह्माप्यबोधिष्ट न यस्य सारं सैन्ये जनोऽबोधि कुतस्तमन्यः । अपूरि यः शृङ्गशतैर्दिगन्ताब्कृङ्गाण्यपूरिष्ट वनं यदीयम् ॥ ६४ ॥
पृष्ठम्:रावणार्जुनीयम्.djvu/३१
दिखावट