कर्मप्रवचनीययुत्ते द्वितीया ।। ८ । तमांसि भिन्दन्मृदुभिः कंराप्रैरालोहितां विम्बरुचिं दधान शीतांशुरुद्यलुदयाद्रिशृङ्गमारुह्य सूर्याकृतिमन्वतिष्ठत् ॥ ८ ॥ यस्मादधिकं यस्य चेश्वरवचनं तत्र ससमी ॥ ९ ॥ सविभ्रमा नर्तितलोचनाब्जा पुनः कामिजनैर्विलोक्य । पुनः शद्वेति मेने ववृतात्मगवैरुपेन्दुविम्वे दयिताननश्रीः ॥ ९ ॥ आविर्भवन्मण्डलबद्धशोभे विसारितेजःपरिपूरिताशे । तारा बभूवुर्दिवमीयुषीन्दैौ प्रजाः पृथिव्यामधिराजनीव ॥ १० ॥ पञ्चम्यपाङ्परिभिः ॥ १० ॥ अपाभ्रमध्यात्मसृतेन्दुकान्तिः कान्तिः सुमेरोः परिपर्युपान्तात् आरोधसंक्षोभमुवाह सिन्धुः सैमुलसच्छीकरमुक्तमुक्तः ॥ ॥ ११ च यस्मात् ॥ ११ सरोजिनीतः प्रतिवीक्ष्य भृङ्गः कुमुद्वतीमाप विकासभाजम् । विना कृतस्य प्रियया हि मैन्ये विनोद्यते तत्सदृशेन चेतः ॥ १२ ॥ दूत्या प्रियायाः समुपेत्य कश्चिन्निवेदिते मूर्छति चन्द्रधामि । एमीति तस्यै संदेशकात्संप्रति यच्छति १३ ॥ संदेशकमेव स्म ॥ उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु द्वितीयान्नेडितान्तेषु ततोऽन्यत्रापि दृश्यते ॥ (वा०) अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि । (वा०) उपर्युपर्यम्बरमिन्दुरायन्नयत्यधोधो नु तमांसि पृथ्वीम् । ज्योला विकीर्णान्परितो दिगन्तान्कान्ताजनं काप्यभितो बभूव ॥१४॥ धिक्त्वां न यातासि सखि प्रियार्थ हा मां कथं यास्यति मे त्रियामा । धृतेषुरास्ते समयात्मभूमी काचिज्जगादेति समाकुला स्त्री ॥ १५ ॥ गत्यर्थकर्मणि द्वितीयाचतुथ्य चेष्टायामनध्वनि ॥१२ त्यक्त्वोदयाद्रिं गगनाय चन्द्रो दत्वानुरागं न ययौ जनाय । जनोऽपि शीशं प्रतिपन्नभूषः मियालयं स त्वरितं जगाम ॥ १६ ॥ २. ‘मध्ये' कः
[३ अ० ३ पा०६ स०] रावणार्जुनीयम् ३७ चतुर्थी संप्रदाने ॥ १३ ॥ आलोकमिन्दुः प्रददौ जनाय जनोऽपि गन्तुं रतये खचेतः । मानाय नारीजनताप्यदत्त तोयं शशाङ्कद्युतिदर्शिताध्वा ॥ १७ ॥ 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः ॥ १४ । तुम थर्थाच भाववचनात् ॥ १५ ॥ केान्ताय यामीति जगाद दूती काचिद्विलोक्येन्दुमपेतपङ्कम् । विमुच्य मानं रतये प्रतस्थे विलासिनी दूतिकया मैहत्या ॥ १८ ॥ नम:खस्तिखाहास्वधालंवषट्योगाच ॥ १६ ॥ नमोऽस्तु चन्द्राय चिराय तस्मै खं कुर्वता येन हतान्धकारम् । प्रियोपभोगप्रमदेन चक्रे स्वस्ति प्रकामं प्रमदाजनाय ॥ १९ ॥ स्वाहाग्रये येन कृतं चिराय स्वधा पितृभ्यश्च जनेन मन्ये । वषट् च रुद्राय सुखं लभन्ते चन्द्रोदयं ते दयितासहायाः ॥ २० ॥ अलं प्रदोषः प्रियसंगमाय मानक्षयायावहितश्च चन्द्रः । एतद्वयं प्रेक्ष्य सखि प्रियाय प्रयाहि मे काचिदुवाच दूतीम् ॥ २१ ॥ मन्यकर्मण्यनादरे विभाषाप्राणिषु ।। १७ ।। ध्वान्तं तृणे व्योमनि मन्यमानं चन्द्रं समासाद्य जनं प्रियं च । शद्वेऽभ्यमन्यन्त विवृद्धतोषा वियोगदुःखानि तृणानि नार्यः ॥ २२ ॥ कापि संपद्यमाने च ॥ (वा०) प्रकृत्यादिभ्य उपसं ख्यानम् ॥ (चा०) पानं मदाय प्रमदाजनानां प्राकल्पतापीतमपि प्रसह्य । आखाद्य दत्तं प्रतिपक्षदृष्टं तत्र प्रकृत्या चतुरेण पत्या ॥ २३ ॥ कर्तृकरणयोस्तृतीया ॥१८॥ सहयुत्तेऽप्रधाने ॥१९॥ मृगाधिपेनेव शशाङ्कभाजा मुक्त्वोदयाद्रिं तिमिरे भचक्रम् । करैर्नखाप्रैरिव भिद्यमानं सकाचवमागात्सह पुष्करेण ॥ २४ ॥ येनाङ्गविकारः ॥ २० ॥ इत्थंभूतलक्षणे ॥ २१ ॥ १. ‘सहान्या' ख. २. ‘तृणाय' इति भवेत्.